Purushottam Sahasranama Stotram

श्री पुरुषोत्तम सहस्रनाम स्तोत्र (Purushottam Sahasranama Stotram): सम्पूर्ण अर्थ, महत्व और पाठ विधि

🌸 Introduction: Purushottam Sahasranama Stotram

हिंदू धर्म में भगवान विष्णु के सहस्र नामों का विशेष महत्व माना गया है। पुरुषोत्तम सहस्रनाम स्तोत्र ( Purushottam Sahasranama Stotram ) एक ऐसा दिव्य स्तोत्र है, जिसमें भगवान श्रीकृष्ण और विष्णु के अनंत गुणों और लीलाओं का वर्णन मिलता है। यह स्तोत्र वल्लभाचार्य द्वारा रचित है और श्रीमद्भागवत के सार का संक्षिप्त रूप माना जाता है।

इस स्तोत्र का नियमित पाठ करने से मनुष्य को भक्ति, शांति और मोक्ष की प्राप्ति होती है।


🕉 पुरुषोत्तम सहस्रनाम स्तोत्र क्या है?

पुरुषोत्तम सहस्रनाम स्तोत्र भगवान विष्णु के 1000 नामों का संग्रह है, जो उनके विभिन्न रूपों, गुणों और लीलाओं का वर्णन करता है। इसमें भगवान को सच्चिदानंद, परमतत्व, भक्तवत्सल और जगत के पालनकर्ता के रूप में बताया गया है।

इस स्तोत्र में कहा गया है कि भगवान के नामों का जप करने से व्यक्ति के सभी पाप नष्ट हो जाते हैं और उसे दिव्य ज्ञान की प्राप्ति होती है।

📖 स्तोत्र की विशेषताएँ

  • यह स्तोत्र श्रीमद्भागवत का सार माना जाता है
  • इसमें भगवान की विभिन्न लीलाओं का वर्णन है
  • यह भक्ति मार्ग को सर्वोच्च मानता है
  • साधक को मोक्ष की ओर ले जाता है

🌺 श्री पुरुषोत्तम सहस्रनाम स्तोत्रम् 🌺

(श्रीभागवतसारसमुच्चये वैश्वानरोक्तम्, श्रीवल्लभाचार्यविरचितम्)


🕉 प्रारम्भिक मन्त्राः

ॐ नमः पुरुषोत्तमाय आदिनारायणाय
ॐ अक्षरपुरुषोत्तमाय नमः
ॐ आद्यपुराणपुरुषोत्तमाय नमः

ॐ परमतत्त्वाय विदमहे परमहंसाय धीमहि तन्नः श्रीसत्यनारायणः प्रचोदयात् ।
ॐ वासुदेवाय विदमहे महाहंसाय धीमहि तन्नो विष्णुः प्रचोदयात् ।
ॐ सच्चिदानन्दाय विदमहे अव्यक्तमहापुरुषाय धीमहि तन्नः श्रीपुरुषोत्तमनारायणः प्रचोदयात् ।

विनियोगः


यह स्तोत्र भगवान पुरुषोत्तम (श्रीकृष्ण) के नामों का वर्णन करता है, जो भागवत से उद्धृत हैं। इसके ऋषि अग्नि, छंद गायत्री, देवता पुरुषोत्तम हैं। इसका बीज भक्तप्रिय, शक्ति सत्यवाक्, कीलक भक्तोद्धरणयत्न, और अस्त्र सर्वसमर्थ गोविंद हैं।

1. पुराणपुरुषो विष्णुः पुरुषोत्तम उच्यते ।
नाम्नां सहस्रं वक्ष्यामि तस्य भागवतोद्धृतम् ॥

2. यस्य प्रसादाद्वागीशाः प्रजेशा विभवोन्नताः ।
क्षुद्रा अपि भवन्त्याशु श्रीकृष्णं तं नतोऽस्म्यहम् ॥

3. अनन्ता एव कृष्णस्य लीला नामप्रवर्तिकाः ।
उक्ता भागवते गूहाः प्रकटा अपि कुत्रचित् ॥

4. अतस्तानि प्रवक्ष्यामि नामानि मुरवैरिणः ।
सहस्रं यैस्तु पठितैः पठितं स्याच्छुकामृतम् ॥

5. कृष्णनामसहस्रस्य ऋषिरग्निर्निरूपितः ।
गायत्री च तथा छन्दो देवता पुरुषोत्तमः ॥

6. विनियोगः समस्तेषु पुरुषार्थेषु वै मतः ।
बीजं भक्तप्रियः शक्तिः सत्यवागुच्यते हरिः ॥

7. भक्तोद्धरणयत्नस्तु मन्त्रोऽत्र परमो मतः ।
अवतारितभक्तांशः कीलकं परिकीर्तितम् ॥

8. अस्त्रं सर्वसमर्थश्च गोविन्दः कवचं मतम् ।
पुरुषो ध्यानमत्रोक्तः सिद्धिः शरणसंस्मृतिः ॥


अधिकारलीला

श्रीकृष्ण सच्चिदानंद, नित्य लीलाविनोदी, लक्ष्मीपति, पुरुषोत्तम, भक्तोद्धारक, व्यास और शुकदेव को मोक्ष देने वाले हैं।

9. श्रीकृष्णः सच्चिदानन्दो नित्यलीलाविनोदकृत् ।
सर्वागमविनोदी च लक्ष्मीशः पुरुषोत्तमः ॥

10. आदिकालः सर्वकालः कालात्मा माययावृतः ।
भक्तोद्धारप्रयत्नात्मा जगत्कर्ता जगन्मयः ॥

11. नामलीलापरो विष्णुर्व्यासात्मा शुकमोक्षदः ।
व्यापिवैकुण्ठदाता च श्रीमद्भागवतागमः ॥

12. शुकवागमृताब्धीन्दुः शौनकाद्यखिलेष्टदः ।
भक्तिप्रवर्तकस्त्राता व्यासचिन्ताविनाशकः ॥

13. सर्वसिद्धान्तवागात्मा नारदाद्यखिलेष्टदः ।
अन्तरात्मा ध्यानगम्यो भक्तिरत्नप्रदायकः ॥

14. मुक्तोपसृप्यः पूर्णात्मा मुक्तानां रतिवर्धनः ।
भक्तकार्यैकनिरतो द्रौण्यस्त्रविनिवारकः ॥

15. भक्तस्मयप्रणेता च भक्तवाक्परिपालकः ।
ब्रह्मण्यदेवो धर्मात्मा भक्तानां च परीक्षकः ॥

16. आसन्नहितकर्ता च मायाहितकरः प्रभुः ।
उत्तराप्राणदाता च ब्रह्मास्त्रविनिवारकः ॥

17. सर्वतः पाणवपतिः परीक्षिच्छुद्धिकारणम् ।
गूहात्मा सर्ववेदेषु भक्तैकहृदयङ्गमः ॥

18. कुन्तीस्तुत्यः प्रसन्नात्मा परमाद्भुतकार्यकृत् ।
भीष्ममुक्तिप्रदः स्वामी भक्तमोहनिवारकः ॥

19. सर्वावस्थासु संसेव्यः समः सुखहितप्रदः ।
कृतकृत्यः सर्वसाक्षी भक्तस्त्रीरतिवर्धनः ॥

20. सर्वसौभाग्यनिलयः परमाश्चर्यरूपधृक् ।
अनन्यपुरुषस्वामी द्वारकाभाग्यभाजनम् ॥

21. बीजसंस्कारकर्ता च परीक्षिज्जनपोषकः ।
सर्वत्रपूर्णगुणकः सर्वभूषणभूषितः ॥

22. सर्वलक्षणदाता च धृतराष्ट्रविमुक्तिदः ।
सन्मार्गरक्षको नित्यं विदुरप्रीतिपूरकः ॥

23. लीलाव्यामोहकर्ता च कालधर्मप्रवर्तकः ।
पाण्डवानां मोक्षदाता परीक्षिद्भाग्यवर्धनः ॥

24. कलिनिग्रहकर्ता च धर्मादीनां च पोषकः ।
सत्सङ्गजानहेतुश्च श्रीभागवतकारणम् ॥

25. प्राकृतादृष्टमार्गश्च ॥ (यहाँ आधा श्लोक है, अगले श्लोक से ज्ञान-साधन-लीला आरम्भ)


ज्ञान-साधन-लीला

वह सभी आगमों द्वारा श्रोतव्य, शुद्ध भाव से कीर्तनीय, ध्यानगम्य, भक्ति द्वारा ग्राह्य हैं।

26. श्रोतव्यः सकलागमैः कीर्तितव्यः शुद्धभावैः स्मर्तव्यश्चात्मवित्तमैः ॥

27. अनेकमार्गकर्ता च नानाविधगतिप्रदः ।
पुरुषः सकलाधारः सत्त्वैकनिलयात्मभूः ॥

28. सर्वध्येयो योगगम्यो भक्त्या ग्राह्यः सुरप्रियः ।
जन्मादिसार्थककृतिर्लीलाकर्ता पतिः सताम् ॥

29. आदिकर्ता तत्त्वकर्ता सर्वकर्ता विशारदः ।
नानावतारकर्ता च ब्रह्माविर्भावकारणम् ॥

30. दशलीलाविनोदी च नानासृष्टिप्रवर्तकः ।
अनेककल्पकर्ता च सर्वदोषविवर्जितः ॥


सर्गलीला

भगवान सृष्टि के कर्ता, वेद-यज्ञ के प्रवर्तक, वराहरूप में भूधर, हिरण्याक्ष का अंत करने वाले, कपिल रूप में ज्ञान के दाता हैं।

31. वैराग्यहेतुस्तीर्थात्मा सर्वतीर्थफलप्रदः ।
तीर्थशुद्धैकनिलयः स्वमार्गपरिपोषकः ॥

32. तीर्थकीर्तिर्भक्तगम्यो भक्तानुशयकार्यकृत् ।
भक्ततुल्यः सर्वतुल्यः स्वेच्छासर्वप्रवर्तकः ॥

33. गुणातीतोऽनवद्यात्मा सर्गलीलाप्रवर्तकः ।
साक्षात्सर्वजगत्कर्ता महदादिप्रवर्तकः ॥

34. मायाप्रवर्तकः साक्षी मायारतिविवर्धनः ।
आकाशात्मा चतुर्मूर्तिश्चतुर्धा भूतभावनः ॥

35. रजःप्रवर्तको ब्रह्मा मरीच्यादिपितामहः ।
वेदकर्ता यज्ञकर्ता सर्वकर्ताऽमितात्मकः ॥

36. अनेकसृष्टिकर्ता च दशधासृष्टिकारकः ।
यज्ञाङ्गो यज्ञवाराहो भूधरो भूमिपालकः ॥

37. सेतुर्विधरणो जैत्रो हिरण्याक्षान्तकः सुरः ।
दितिकश्यपकामैकहेतुसृष्टिप्रवर्तकः ॥

38. देवाभयप्रदाता च वैकुण्ठाधिपतिर्महान् ।
सर्वगर्वप्रहारी च सनकाद्यखिलार्थदः ॥

39. सर्वाश्वासनकर्ता च भक्ततुल्याहवप्रदः ।
काललक्षणहेतुश्च सर्वार्थज्ञापकः परः ॥

40. भक्तोन्नतिकरः सर्वप्रकारसुखदायकः ।
नानायुद्धप्रहरणो ब्रह्मशापविमोचकः ॥

41. पुष्टिसर्गप्रणेता च गुणसृष्टिप्रवर्तकः ।
कर्दमेष्टप्रदाता च देवहूत्यखिलार्थदः ॥

42. शुक्लनारायणः सत्यकालधर्मप्रवर्तकः ।
ज्ञानावतारः शान्तात्मा कपिलः कालनाशकः ॥

43. त्रिगुणाधिपतिः साङ्ख्यशास्त्रकर्ता विशारदः ।
सर्गदूषणहारी च पुष्टिमोक्षप्रवर्तकः ॥

44. लौकिकानन्ददाता च ब्रह्मानन्दप्रवर्तकः ।
भक्तिसिद्धान्तवक्ता च सगुणज्ञानदीपकः ॥

45. आत्मप्रदः पूर्णकामो योगात्मा योगभावितः ।
जीवन्मुक्तिप्रदः श्रीमानन्यभक्तिप्रवर्तकः ॥

46. कालसामर्थ्यदाता च कालदोषनिवारकः ।
गर्भोत्तमज्ञानदाता कर्ममार्गनियामकः ॥

47. सर्वमार्गनिराकर्ता भक्तिमार्गैकपोषकः ।
सिद्धिहेतुः सर्वहेतुः सर्वाश्चर्यैककारणम् ॥

48. चेतनाचेतनपतिः समुद्रपरिपूजितः ।
साङ्ख्याचार्यस्तुतः सिद्धपूजितः सर्वपूजितः ॥


विसर्गलीला

वे कोटि-ब्रह्मांड के विग्रह, सर्वगुण भाजन, दत्तात्रेय, नर-नारायण, ध्रुव के स्वामी, पृथु, रघु, रामचंद्र आदि अवतारों के रूप में प्रकट होते हैं।

49. विसर्गकर्ता सर्वेशः कोटिसूर्यसमप्रभः ।
अनन्तगुणगम्भीरो महापुरुषपूजितः ॥

50. अनन्तसुखदाता च ब्रह्मकोटिप्रजापतिः ।
सुधाकोटिस्वास्थ्यहेतुः कामधुक्कोटिकामदः ॥

51. समुद्रकोटिगम्भीरस्तीर्थकोटिसमाह्वयः ।
सुमेरुकोटिनिष्कम्पः कोटिब्रह्माण्डविग्रहः ॥

52. कोट्यश्वमेधपापघ्नो वायुकोटिमहाबलः ।
कोटीन्दुजगदानन्दी शिवकोटिप्रसादकृत् ॥

53. सर्वसद्गुणमाहात्म्यः सर्वसद्गुणभाजनम् ।
मन्वादिप्रेरको धर्मो यज्ञनारायणः परः ॥

54. आकूतिसूनुर्देवेन्द्रो रुचिजन्माऽभयप्रदः ।
दक्षिणापतिरोजस्वी क्रियाशक्तिः परायणः ॥

55. दत्तात्रेयो योगपतिर्योगमार्गप्रवर्तकः ।
अनसूयागर्भरत्नमृषिवंशविवर्धनः ॥

56. गुणत्रयविभागज्ञश्चतुर्वर्गविशारदः ।
नारायणो धर्मसूनुर्मूर्तिपुण्ययशस्करः ॥

57. सहस्रकवचच्छेदी तपःसारो नरप्रियः ।
विश्वानन्दप्रदः कर्मसाक्षी भारतपूजितः ॥

58. अनन्ताद्भुतमाहात्म्यो बदरीस्थानभूषणम् ।
जितकामो जितक्रोधो जितसङ्गो जितेन्द्रियः ॥

59. उर्वशीप्रभवः स्वर्गसुखदायी स्थितिप्रदः ।
अमानी मानदो गोप्ता भगवच्छास्त्रबोधकः ॥

60. ब्रह्मादिवन्द्यो हंसश्रीर्मायावैभवकारणम् ।
विविधानन्तसर्गात्मा विश्वपूरणतत्परः ॥

61. यज्ञजीवनहेतुश्च यज्ञस्वामीष्टबोधकः ।
नानासिद्धान्तगम्यश्च सप्ततन्तुश्च षड्गुणः ॥

62. प्रतिसर्गजगत्कर्ता नानालीलाविशारदः ।
ध्रुवप्रियो ध्रुवस्वामी चिन्तिताधिकदायकः ॥

63. दुर्लभानन्तफलदो दयानिधिरमित्रहा ।
अङ्गस्वामी कृपासारो वैन्यो भूमिनियामकः ॥

64. भूमिदोग्धा प्रजाप्राणपालनैकपरायणः ।
यशोदाता ज्ञानदाता सर्वधर्मप्रदर्शकः ॥

65. पुरञ्जनो जगन्मित्रं विसर्गान्तप्रदर्शकः ।
प्रचेतसां पतिश्चित्रभक्तिहेतुर्जनार्दनः ॥

66. स्मृतिहेतुब्रह्मभावसायुज्यादिप्रदः शुभः ।
विजयी ॥


स्थानलीला

अच्युत, अधोक्षज, प्रियव्रत के स्वामी, मर्यादापुरुषोत्तम, ऋषभ, भरत, जंबूद्वीप के स्वामी, सूर्यनारायण, संकर्षण आदि रूपों में विराजमान।

67. स्थितिलीलाब्धिरच्युतो विजयप्रदः ॥ (आधा श्लोक)

68. स्वसामर्थ्यप्रदो भक्तकीर्तिहेतुरधोक्षजः ।
प्रियव्रतप्रियस्वामी स्वेच्छावादविशारदः ॥

69. सङ्ग्यगम्यः स्वप्रकाशः सर्वसङ्गविवर्जितः ।
इच्छायां च समर्यादस्त्यागमात्रोपलम्भनः ॥

70. अचिन्त्यकार्यकर्ता च तर्कागोचरकार्यकृत् ।
शृङ्गाररसमर्यादा आग्नीध्ररसभाजनम् ॥

71. नाभीष्टपूरकः कर्ममर्यादादर्शनोत्सुकः ।
सर्वरूपोऽद्भुततमो मर्यादापुरुषोत्तमः ॥

72. सर्वरूपेषु सत्यात्मा कालसाक्षी शशिप्रभः ।
मेरुदेवीव्रतफलमृषभो भगलक्षणः ॥

73. जगत्सन्तर्पको मेघरूपी देवेन्द्रदर्पहा ।
जयन्तीपतिरत्यन्तप्रमाणाशेषलौकिकः ॥

74. शतधान्यस्तभूतात्मा शतानन्दो गुणप्रसूः ।
वैष्णवोत्पादनपरः सर्वधर्मोपदेशकः ॥

75. परहंसक्रियागोप्ता योगचर्याप्रदर्शकः ।
चतुर्थाश्रमनिर्णेता सदानन्दशरीरवान् ॥

76. प्रदर्शितान्यधर्मश्च भरतस्वाम्यपारकृत् ।
यथावत्कर्मकर्ता च सङ्गानिष्टप्रदर्शकः ॥

77. आवश्यकपुनर्जन्मकर्ममार्गप्रदर्शकः ।
यज्ञरूपमृगः शान्तः सहिष्णुः सत्पराक्रमः ॥

78. रहूगणगतिज्ञश्च रहूगणविमोचकः ।
भवाटवीतत्त्ववक्ता बहिर्मुखहिते रतः ॥

79. गयस्वामी स्थानवंशकर्ता स्थानविभेदकृत् ।
पुरुषावयवो भूमिविशेषविनिरूपकः ॥

80. जम्बूद्वीपपतिर्मेरुनाभिपद्मरुहाश्रयः ।
नानाविभूतिलीलाढ्यो गङ्गोत्पत्तिनिदानकृत् ॥

81. गङ्गामाहात्म्यहेतुश्च गङ्गारूपोऽतिगूढकृत् ।
वैकुण्ठदेहहेत्वम्बुजन्मकृत् सर्वपावनः ॥

82. शिवस्वामी शिवोपास्यो गूढः सङ्कर्षणात्मकः ।
स्थानरक्षार्थमत्स्यादिरूपः सर्वैकपूजितः ॥

83. उपास्यनानारूपात्मा ज्योतीरूपो गतिप्रदः ।
सूर्यनारायणो वेदकान्तिरुज्ज्वलवेषधृक् ॥

84. हंसोऽन्तरिक्षगमनः सर्वप्रसवकारणम् ।
आनन्दकर्ता वसुदो बुधो वाक्पतिरुज्ज्वलः ॥

85. कालात्मा कालकालश्च कालच्छेदकृदुत्तमः ।
शिशुमारः सर्वमूर्तिराधिदैविकरूपधृक् ॥

86. अनन्तसुखभोगाढ्यो विवरैश्वर्यभाजनम् ।
सङ्कर्षणो दैत्यपतिः सर्वाधारो बृहद्वपुः ॥

87. अनन्तनरकच्छेदी स्मृतिमात्रार्तिनाशनः ।
सर्वानुग्रहकर्ता च ॥


पोषण-पुष्टि-लीला

अजामिल का उद्धार करने वाले, वैकुंठ के नेता, नारद-प्रेरणा के स्रोत, प्रह्लाद के वत्सल, नृसिंह रूप में भक्तों के रक्षक।

88. मर्यादाभिन्नशास्त्रकृत् ॥

89. कालान्तकभयच्छेदी नामसामर्थ्यरूपधृक् ।
उद्धारानर्हगोप्त्रात्मा नामादिप्रेरकोत्तमः ॥

90. अजामिलमहादुष्टमोचकोऽघविमोचकः ।
धर्मवक्ताऽक्लिष्टवक्ता विष्णुधर्मस्वरूपधृक् ॥

91. सन्मार्गप्रेरको धर्ता त्यागहेतुरधोक्षजः ।
वैकुण्ठपुरनेता च दाससंवृद्धिकारकः ॥

92. दक्षप्रसादकृद्धंसगुह्यस्तुतिविभावनः ।
स्वाभिप्रायप्रवक्ता च मुक्तजीवप्रसूतिकृत् ॥

93. नारदप्रेरणात्मा च हर्यश्वब्रह्मभावनः ।
शबलाश्वहितो गूढवाक्यार्थज्ञापनक्षमः ॥

94. गूढार्थज्ञापनः सर्वमोक्षानन्दप्रतिष्ठितः ।
पुष्टिप्ररोहहेतुश्च दासैकज्ञातहृद्गतः ॥

95. शान्तिकर्ता सुहितकृत् स्त्रीप्रसूः सर्वकामधुक् ।
पुष्टिवंशप्रणेता च विश्वरूपेष्टदेवता ॥

96. कवचात्मा पालनात्मा वर्मोपचितिकारणम् ।
विश्वरूपशिरश्छेदी त्वाष्ट्रयज्ञविनाशकः ॥

97. वृत्रस्वामी वृत्रगम्यो वृत्रव्रतपरायणः ।
वृत्रकीर्तिर्वृत्रमोक्षो मघवत्प्राणरक्षकः ॥

98. अश्वमेधहविर्भोक्ता देवेन्द्रामीवनाशकः ।
संसारमोचकश्चित्रकेतुबोधनतत्परः ॥

99. मन्त्रसिद्धिः सिद्धिहेतुः सुसिद्धिफलदायकः ।
महादेवतिरस्कर्ता भक्त्यै पूर्वार्थनाशकः ॥

100. देवब्राह्मणविद्वेषवैमुख्यज्ञापकः शिवः ।
आदित्यो दैत्यराजश्च महत्पतिरचिन्त्यकृत् ॥

101. मरुतां भेदकस्त्राता व्रतात्मा पुम्प्रसूतिकृत् ।


ऊतिलीला

सर्वज्ञ, सर्वहेतुविद्, त्रिसत्य, हिरण्यकशिपु का द्वेष करने वाले, स्तंभ से प्रकट नृसिंह, भक्तों के हृदय में शांति देने वाले।

102. कर्मात्मा वासनात्मा च ऊतिलीलापरायणः ॥

103. समदैत्यसुरः स्वात्मा वैषम्यज्ञानसंश्रयः ।
देहाद्युपाधिरहितः सर्वज्ञः सर्वहेतुविद् ॥

104. ब्रह्मवाक्स्थापनपरः स्वजन्मावधिकार्यकृत् ।
सदसद्वासनाहेतुस्त्रिसत्यो भक्तमोचकः ॥

105. हिरण्यकशिपुद्वेषी प्रविष्टात्माऽतिभीषणः ।
शान्तिज्ञानादिहेतुश्च प्रह्लादोत्पत्तिकारणम् ॥

106. दैत्यसिद्धान्तसद्वक्ता तपःसार उदारधीः ।
दैत्यहेतुप्रकटनो भक्तिचिह्नप्रकाशकः ॥

107. सद्द्वेषहेतुः सद्द्वेषवासनात्मा निरन्तरः ।
नैष्ठुर्यसीमा प्रह्लादवत्सलः सङ्गदोषहा ॥

108. महानुभावः साकारः सर्वाकारः प्रमाणभूः ।
स्तम्भप्रसूतिर्नृहरिर्नृसिंहो भीमविक्रमः ॥

109. विकटास्यो ललज्जिह्वो नखशस्त्रो जवोत्कटः ।
हिरण्यकशिपुच्छेदी क्रूरदैत्यनिवारकः ॥

110. सिंहासनस्थः क्रोधात्मा लक्ष्मीभयविवर्धनः ।
ब्रह्माद्यत्यन्तभयभूरपूर्वाचिन्त्यरूपधृक् ॥

111. भक्तैकशान्तहृदयो भक्तस्तुत्यः स्तुतिप्रियः ।
भक्ताङ्गलेहनोद्धूतक्रोधपुङ्जः प्रशान्तधीः ॥

112. स्मृतिमात्रभयत्राता ब्रह्मबुद्धिप्रदायकः ।
गोरूपधार्यमृतपाः शिवकीर्तिविवर्धनः ॥

113. धर्मात्मा सर्वकर्मात्मा विशेषात्माऽऽश्रमप्रभुः ।
संसारमग्नस्वोद्धर्ता सन्मार्गाखिलतत्त्ववाक् ॥

114. आचारात्मा सदाचारः ॥


मन्वन्तरलीला

गजेंद्र के उद्धारकर्ता, वामनरूप में बलि का दमन करने वाले, त्रिविक्रम, मत्स्यरूप में सत्यव्रत के रक्षक, धन्वंतरि, मोहिनी रूप आदि।

115. मन्वन्तरविभावनः । स्मृत्याऽशेषाशुभहरो गजेन्द्रस्मृतिकारणम् ॥

116. जातिस्मरणहेत्वैकपूजाभक्तिस्वरूपदः ।
यज्ञो भयान्मनुत्राता विभुर्ब्रह्मव्रताश्रयः ॥

117. सत्यसेनो दुष्टघाती हरिर्गजविमोचकः ।
वैकुण्ठो लोककर्ता च अजितोऽमृतकारणम् ॥

118. उरुक्रमो भूमिहर्ता सार्वभौमो बलिप्रियः ।
विभुः सर्वहितैकात्मा विष्वक्सेनः शिवप्रियः ॥

119. धर्मसेतुर्लोकधृतिः सुधामान्तरपालकः ।
उपहर्ता योगपतिर्बृहद्भानुः क्रियापतिः ॥

120. चतुर्दशप्रमाणात्मा धर्मो मन्वादिबोधकः ।
लक्ष्मीभोगैकनिलयो देवमन्त्रप्रदायकः ॥

121. दैत्यव्यामोहकः साक्षाद्गरुडस्कन्धसंश्रयः ।
लीलामन्दरधारी च दैत्यवासुकिपूजितः ॥

122. समुद्रोन्मथनायत्तोऽविघ्नकर्ता स्ववाक्यकृत् ।
आदिकूर्मः पवित्रात्मा मन्दराघर्षणोत्सुकः ॥

123. श्वासैजदब्धिवार्वीचिः कल्पान्तावधिकार्यकृत् ।
चतुर्दशमहारत्नो लक्ष्मीसौभाग्यवर्धनः ॥

124. धन्वन्तरिः सुधाहस्तो यज्ञभोक्ताऽऽर्तिनाशनः ।
आयुर्वेदप्रणेता च देवदैत्याखिलार्चितः ॥

125. बुद्धिव्यामोहको देवकार्यसाधनतत्परः ।
स्त्रीरूपो मायया वक्ता दैत्यान्तःकरणप्रियः ॥

126. पायितामृतदेवांशो युद्धहेतुस्मृतिप्रदः ।
सुमालिमालिवधकृन्माल्यवत्प्राणहारकः ॥

127. कालनेमिशिरश्छेदी दैत्ययज्ञविनाशकः ।
इन्द्रसामर्थ्यदाता च दैत्यशेषस्थितिप्रियः ॥

128. शिवव्यामोहको मायी भृगुमन्त्रस्वशक्तिदः ।
बलिजीवनकर्ता च स्वर्गहेतुर्व्रतार्चितः ॥

129. अदित्यानन्दकर्ता च कश्यपादितिसम्भवः ।
उपेन्द्र इन्द्रावरजो वामनब्रह्मरूपधृक् ॥

130. ब्रह्मादिसेवितवपुर्यज्ञपावनतत्परः ।
याच्ञोपदेशकर्ता च ज्ञापिताशेषसंस्थितिः ॥

131. सत्यार्थप्रेरकः सर्वहर्ता गर्वविनाशकः ।
त्रिविक्रमस्त्रिलोकात्मा विश्वमूर्तिः पृथुश्रवाः ॥

132. पाशबद्धबलिः सर्वदैत्यपक्षोपमर्दकः ।
सुतलस्थापितबलिः स्वर्गाधिकसुखप्रदः ॥

133. कर्मसम्पूर्तिकर्ता च स्वर्गसंस्थापितामरः ।
ज्ञातत्रिविधधर्मात्मा महामीनोऽब्धिसंश्रयः ॥

134. सत्यव्रतप्रियो गोप्ता मत्स्यमूर्तिधृतश्रुतिः ।
शृङ्गबद्धधृतक्षोणिः सर्वार्थज्ञापको गुरुः ॥


ईशानुकथालीला  (रामचरित्र)

रघुवंश के विस्तारक, रामचंद्र, सीतापति, रावण का अंत करने वाले, अयोध्या के स्वामी, भक्त हनुमान के प्रिय।

135. ईशसेवकलीलात्मा सूर्यवंशप्रवर्तकः ।
सोमवंशोद्भवकरो मनुपुत्रगतिप्रदः ॥

136. अम्बरीषप्रियः साधुर्दुर्वासोगर्वनाशकः ।
ब्रह्मशापोपसंहर्ता भक्तकीर्तिविवर्धनः ॥

137. इक्ष्वाकुवंशजनकः सगराद्यखिलार्थदः ।
भगीरथमहायत्नो गङ्गाधौताङ्घ्रिपङ्कजः ॥

138. ब्रह्मस्वामी शिवस्वामी सगरात्मजमुक्तिदः ।
खट्वाङ्गमोक्षहेतुश्च रघुवंशविवर्धनः ॥

139. रघुनाथो रामचन्द्रो रामभद्रो रघुप्रियः ।
अनन्तकीर्तिः पुण्यात्मा पुण्यश्लोकैकभास्करः ॥

140. कोशलेन्द्रः प्रमाणात्मा सेव्यो दशरथात्मजः ।
लक्ष्मणो भरतश्चैव शत्रुघ्नो व्यूहविग्रहः ॥

141. विश्वामित्रप्रियो दान्तस्ताडकावधमोक्षदः ।
वायव्यास्त्राब्धिनिक्षिप्तमारीचश्च सुबाहुहा ॥

142. वृषध्वजधनुर्भङ्गप्राप्तसीतामहोत्सवः ।
सीतापतिर्भृगुपतिगर्वपर्वतनाशकः ॥

143. अयोध्यास्थमहाभोगयुक्तलक्ष्मीविनोदवान् ।
कैकेयीवाक्यकर्ता च पितृवाक्परिपालकः ॥

144. वैराग्यबोधकोऽनन्यसात्त्विकस्थानबोधकः ।
अहल्यादुःखहारी च गुहस्वामी सलक्ष्मणः ॥

145. चित्रकूटप्रियस्थानो दण्डकारण्यपावनः ।
शरभङ्गसुतीक्ष्णादिपूजितोऽगस्त्यभाग्यभूः ॥

146. ऋषिसम्प्रार्थितकृतिर्विराधवधपण्डितः ।
छिन्नशूर्पणखानासः खरदूषणघातकः ॥

147. एकबाणहतानेकसहस्रबलराक्षसः ।
मारीचघाती नियतसीतासम्बन्धशोभितः ॥

148. सीतावियोगनाट्यश्च जटायुर्वधमोक्षदः ।
शबरीपूजितो भक्तहनुमत्प्रमुखावृतः ॥

149. दुन्दुभ्यस्थिप्रहरणः सप्ततालविभेदनः ।
सुग्रीवराज्यदो वालिघाती सागरशोषणः ॥

150. सेतुबन्धनकर्ता च विभीषणहितप्रदः ।
रावणादिशिरश्छेदी राक्षसाघौघनाशकः ॥

151. सीताऽभयप्रदाता च पुष्पकागमनोत्सुकः ।
अयोध्यापतिरत्यन्तसर्वलोकसुखप्रदः ॥

152. मथुरापुरनिर्माता सुकृतज्ञस्वरूपदः ।
जनकज्ञानगम्यश्च ऐलान्तप्रकटश्रुतिः ॥

153. हैहयान्तकरो रामो दुष्टक्षत्रविनाशकः ।
सोमवंशहितैकात्मा यदुवंशविवर्धनः ॥


निरोधलीला (श्रीकृष्ण चरित्र)

देवकी-वसुदेव के पुत्र, यशोदा के नंदन, पूतना-शकटासुर-त्रणावर्त-बकासुर-अघासुर-कालीय-प्रलंब-कंस आदि का वध करने वाले, गोवर्धनधारी, रासलीला के रसिक, रुक्मिणी-सत्यभामा-जांबवती आदि पतियों के स्वामी, द्वारका के अधिपति।

154. परब्रह्मावतरणः केशवः क्लेशनाशनः ।
भूमिभारावतरणो भक्तार्थाखिलमानसः ॥

155. सर्वभक्तनिरोधात्मा लीलानन्तनिरोधकृत् ।
भूमिष्ठपरमानन्दो देवकीशुद्धिकारणम् ॥

156. वसुदेवज्ञाननिष्ठसमजीवनिवारकः ।
सर्ववैराग्यकरणस्वलीलाधारशोधकः ॥

157. मायाज्ञापनकर्ता च शेषसम्भारसम्भृतिः ।
भक्तक्लेशपरिज्ञाता तन्निवारणतत्परः ॥

158. आविष्टवसुदेवांशो देवकीगर्भभूषणम् ।
पूर्णतेजोमयः पूर्णः कंसाधृष्यप्रतापवान् ॥

159. विवेकज्ञानदाता च ब्रह्माद्यखिलसंस्तुतः ।
सत्यो जगत्कल्पतरुर्नानारूपविमोहनः ॥

160. भक्तिमार्गप्रतिष्ठाता विद्वन्मोहप्रवर्तकः ।
मूलकालगुणद्रष्टा नयनानन्दभाजनम् ॥

161. वसुदेवसुखाब्धिश्च देवकीनयनामृतम् ।
पितृमातृस्तुतः पूर्वसर्ववृत्तान्तबोधकः ॥

162. गोकुलागतिलीलाप्तवसुदेवकरस्थितिः ।
सर्वेशत्वप्रकटनो मायाव्यत्ययकारकः ॥

163. ज्ञानमोहितदुष्टेशः प्रपञ्चास्मृतिकारणम् ।
यशोदानन्दनो नन्दभाग्यभूगोकुलोत्सवः ॥

164. नन्दप्रियो नन्दसूनुर्यशोदायाः स्तनन्धयः ।
पूतनासुपयःपाता मुग्धभावातिसुन्दरः ॥

165. सुन्दरीहृदयानन्दो गोपीमन्त्राभिमन्त्रितः ।
गोपालाश्चर्यरसकृत् शकटासुरखण्डनः ॥

166. नन्दव्रजजनानन्दी नन्दभाग्यमहोदयः ।
तृणावर्तवधोत्साहो यशोदाज्ञानविग्रहः ॥

167. बलभद्रप्रियः कृष्णः सङ्कर्षणसहायवान् ।
रामानुजो वासुदेवो गोष्ठाङ्गणगतिप्रियः ॥

168. किङ्किणीरवभावज्ञो वत्सपुच्छावलम्बनः ।
नवनीतप्रियो गोपीमोहसंसारनाशकः ॥

169. गोपबालकभावज्ञश्चौर्यविद्याविशारदः ।
मृत्स्नाभक्षणलीलास्यमाहात्म्यज्ञानदायकः ॥

170. धराद्रोणप्रीतिकर्ता दधिभाण्डविभेदनः ।
दामोदरो भक्तवश्यो यमलार्जुनभञ्जनः ॥

171. बृहद्वनमहाश्चर्यो वृन्दावनगतिप्रियः ।
वत्सघाती बालकेलिर्बकासुरनिषूदनः ॥

172. अरण्यभोक्ताऽप्यथवा बाललीलापरायणः ।
प्रोत्साहजनकश्चैवमघासुरनिषूदनः ॥

173. व्यालमोक्षप्रदः पुष्टो ब्रह्ममोहप्रवर्धनः ।
अनन्तमूर्तिः सर्वात्मा जङ्गमस्थावराकृतिः ॥

174. ब्रह्ममोहनकर्ता च स्तुत्य आत्मा सदाप्रियः ।
पौगण्डलीलाभिरतिर्गोचारणपरायणः ॥

175. वृन्दावनलतागुल्मवृक्षरूपनिरूपकः ।
नादब्रह्मप्रकटनो वयःप्रतिकृतिस्वनः ॥

176. बर्हिनृत्यानुकरणो गोपालानुकृतिस्वनः ।
सदाचारप्रतिष्ठाता बलश्रमनिराकृतिः ॥

177. तरुमूलकृताशेषतल्पशायी सखिस्तुतः ।
गोपालसेवितपदः श्रीलालितपदाम्बुजः ॥

178. गोपसम्प्रार्थितफलदाननाशितधेनुकः ।
कालीयफणिमाणिक्यरञ्जितश्रीपदाम्बुजः ॥

179. दृष्टिसञ्जीविताशेषगोपगोगोपिकाप्रियः ।
लीलासम्पीतदावाग्निः प्रलम्बवधपण्डितः ॥

180. दावाग्न्यावृतगोपालदृष्ट्याच्छादनवह्निपः ।
वर्षाशरद्विभूतिश्रीर्गोपीकामप्रबोधकः ॥

181. गोपीरत्नस्तुताशेषवेणुवाद्यविशारदः ।
कात्यायनीव्रतव्याजसर्वभावाश्रिताङ्गनः ॥

182. सत्सङ्गतिस्तुतिव्याजस्तुतवृन्दावनाङ्घ्रिपः ।
गोपक्षुच्छान्तिसंव्याजविप्रभार्याप्रसादकृत् ॥

183. हेतुप्राप्तेन्द्रयागस्वकार्यगोसवबोधकः ।
शैलरूपकृताशेषरसभोगसुखावहः ॥

184. लीलागोवर्धनोद्धारपालितस्वव्रजप्रियः ।
गोपस्वच्छन्दलीलार्थगर्गवाक्यार्थबोधकः ॥

185. इन्द्रधेनुस्तुतिप्राप्तगोविन्देन्द्राभिधानवान् ।
व्रतादिधर्मसंसक्तनन्दक्लेशविनाशकः ॥

186. नन्दादिगोपमात्रेष्टवैकुण्ठगतिदायकः ।
वेणुवादस्मरक्षोभमत्तगोपीविमुक्तिदः ॥

187. सर्वभावप्राप्तगोपीसुखसंवर्धनक्षमः ।
गोपीगर्वप्रणाशार्थतिरोधानसुखप्रदः ॥

188. कृष्णभावव्याप्तविश्वगोपीभावितवेषधृक् ।
राधाविशेषसम्भोगप्राप्तदोषनिवारकः ॥

189. परमप्रीतिसङ्गीतसर्वाद्भुतमहागुणः ।
मानापनोदनाक्रन्दगोपीदृष्टिमहोत्सवः ॥

190. गोपिकाव्याप्तसर्वाङ्गः स्त्रीसम्भाषाविशारदः ।
रासोत्सवमहासौख्यगोपीसम्भोगसागरः ॥

191. जलस्थलरतिव्याप्तगोपीदृष्ट्यभिपूजितः ।
शास्त्रानपेक्षकामैकमुक्तिद्वारविवर्धनः ॥

192. सुदर्शनमहासर्पग्रस्तनन्दविमोचकः ।
गीतमोहितगोपीधृक्षङ्खचूडविनाशकः ॥

193. गुणसङ्गीतसन्तुष्टिर्गोपीसंसारविस्मृतिः ।
अरिष्टमथनो दैत्यबुद्धिव्यामोहकारकः ॥

194. केशिघाती नारदेष्टो व्योमासुरविनाशकः ।
अक्रूरभक्तिसंराद्धपादरेणुमहानिधिः ॥

195. रथावरोहशुद्धात्मा गोपीमानसहारकः ।
ह्रदसन्दर्शिताशेषवैकुण्ठाक्रूरसंस्तुतः ॥

196. मथुरागमनोत्साहो मथुराभाग्यभाजनम् ।
मथुरानगरीशोभादर्शनोत्सुकमानसः ॥

197. दुष्टरञ्जकघाती च वायकार्चितविग्रहः ।
वस्त्रमालासुशोभाङ्गः कुब्जालेपनभूषितः ॥

198. कुब्जासुरूपकर्ता च कुब्जारतिवरप्रदः ।
प्रसादरूपसन्तुष्टहरकोदण्डखण्डनः ॥

199. शकलाहतकंसाप्तधनूरक्षकसैनिकः ।
जाग्रत्स्वप्नभयव्याप्तमृत्युलक्षणबोधकः ॥

200. मथुरामल्ल ओजस्वी मल्लयुद्धविशारदः ।
सद्यः कुवलयापीडघाती चाणूरमर्दनः ॥

201. लीलाहतमहामल्लः शलतोशलघातकः ।
कंसान्तको जितामित्रो वसुदेवविमोचकः ॥

202. ज्ञाततत्त्वपितृज्ञानमोहनामृतवाङ्मयः ।
उग्रसेनप्रतिष्ठाता यादवाधिविनाशकः ॥

203. नन्दादिसान्त्वनकरो ब्रह्मचर्यव्रते स्थितः ।
गुरुशुश्रूषणपरो विद्यापारमितेश्वरः ॥

204. सान्दीपनिमृतापत्यदाता कालान्तकादिजित् ।
गोकुलाश्वासनपरो यशोदानन्दपोषकः ॥

205. गोपिकाविरहव्याजमनोगतिरतिप्रदः ।
समोद्धवभ्रमरवाक् गोपिकामोहनाशकः ॥

206. कुब्जारतिप्रदोऽक्रूरपवित्रीकृतभूगृहः ।
पृथादुःखप्रणेता च पाण्डवानां सुखप्रदः ॥

207. जरासन्धसमानीतसैन्यघाती विचारकः ।
यवनव्याप्तमथुराजनदत्तकुशस्थलिः ॥

208. द्वारकाद्भुतनिर्माणविस्मापितसुरासुरः ।
मनुष्यमात्रभोगार्थभूम्यानीतेन्द्रवैभवः ॥

209. यवनव्याप्तमथुरानिर्गमानन्दविग्रहः ।
मुचुकुन्दमहाबोधयवनप्राणदर्पहा ॥

210. मुचुकुन्दस्तुताशेषगुणकर्ममहोदयः ।
फलप्रदानसन्तुष्टिर्जन्मान्तरितमोक्षदः ॥

211. शिवब्राह्मणवाक्याप्तजयभीतिविभावनः ।
प्रवर्षणप्रार्थिताग्निदानपुण्यमहोत्सवः ॥

212. रुक्मिणीरमणः कामपिता प्रद्युम्नभावनः ।
स्यमन्तकमणिव्याजप्राप्तजाम्बवतीपतिः ॥

213. सत्यभामाप्राणपतिः कालिन्दीरतिवर्धनः ।
मित्रविन्दापतिः सत्यापतिर्वृषनिषूदनः ॥

214. भद्रावाञ्छितभर्ता च लक्ष्मणावरणक्षमः ।
इन्द्रादिप्रार्थितवधनरकासुरसूदनः ॥

215. मुरारिः पीठहन्ता च ताम्रादिप्राणहारकः ।
षोडशस्त्रीसहस्रेशः छत्रकुण्डलदानकृत् ॥

216. पारिजातापहरणो देवेन्द्रमदनाशकः ।
रुक्मिणीसमसर्वस्त्रीसाध्यभोगरतिप्रदः ॥

217. रुक्मिणीपरिहासोक्तिवाक्तिरोधानकारकः ।
पुत्रपौत्रमहाभाग्यगृहधर्मप्रवर्तकः ॥

218. शम्बरान्तकसत्पुत्रविवाहहतरुक्मिकः ।
उषापहृतपौत्रश्रीर्बाणबाहुनिवारकः ॥

219. शीतज्वरभयव्याप्तज्वरसंस्तुतषड्गुणः ।
शङ्करप्रतियोद्धा च द्वन्द्वयुद्धविशारदः ॥

220. नृगपापप्रभेत्ता च ब्रह्मस्वगुणदोषदृक् ।
विष्णुभक्तिविरोधैकब्रह्मस्वविनिवारकः ॥

221. बलभद्राहितगुणो गोकुलप्रीतिदायकः ।
गोपीस्नेहैकनिलयो गोपीप्राणस्थितिप्रदः ॥

222. वाक्यातिगामियमुनाहलाकर्षणवैभवः ।
पौण्ड्रकत्याजितस्पर्धः काशीराजविभेदनः ॥

223. काशीनिदाहकरणः शिवभस्मप्रदायकः ।
द्विविदप्राणघाती च कौरवाखर्वगर्वनुत् ॥

224. लाङ्गलाकृष्टनगरीसंविग्नाखिलनागरः ।
प्रपन्नाभयदः साम्बप्राप्तसन्मानभाजनम् ॥

225. नारदान्विष्टचरणो भक्तविक्षेपनाशकः ।
सदाचारैकनिलयः सुधर्माध्यासितासनः ॥

226. जरासन्धावरुद्धेन विज्ञापितनिजक्लमः ।
मन्त्र्युद्धवादिवाक्योक्तप्रकारैकपरायणः ॥

227. राजसूयादिमखकृत् सम्प्रार्थितसहायकृत् ।
इन्द्रप्रस्थप्रयाणार्थमहत्सम्भारसम्भृतिः ॥

228. जरासन्धवधव्याजमोचिताशेषभूमिपः ।
सन्मार्गबोधको यज्ञक्षितिवारणतत्परः ॥

229. शिशुपालहतिव्याजजयशापविमोचकः ।
दुर्योधनाभिमानाब्धिशोषबाणवृकोदरः ॥

230. महादेववरप्राप्तपुरशाल्वविनाशकः ।
दन्तवक्त्रवधव्याजविजयाघौघनाशकः ॥

231. विदूरथप्राणहर्ता न्यस्तशस्त्रास्त्रविग्रहः ।
उपधर्मविलिप्ताङ्गसूतघाती वरप्रदः ॥

232. बल्वलप्राणहरणपालितर्षिश्रुतिक्रियः ।
सर्वतीर्थाघनाशार्थतीर्थयात्राविशारदः ॥

233. ज्ञानक्रियाविभेदेष्टफलसाधनतत्परः ।
सारथ्यादिक्रियाकर्ता भक्तवश्यत्वबोधकः ॥

234. सुदामारङ्कभार्यार्थभूम्यानीतेन्द्रवैभवः ।
रविग्रहनिमित्ताप्तकुरुक्षेत्रैकपावनः ॥

235. नृपगोपीसमस्तस्त्रीपावनार्थाखिलक्रियः ।
ऋषिमार्गप्रतिष्ठाता वसुदेवमखक्रियः ॥

236. वसुदेवज्ञानदाता देवकीपुत्रदायकः ।
अर्जुनस्त्रीप्रदाता च बहुलाश्वस्वरूपदः ॥

237. श्रुतदेवेष्टदाता च सर्वश्रुतिनिरूपितः ।
महादेवाद्यतिश्रेष्ठो भक्तिलक्षणनिर्णयः ॥

238. वृकग्रस्तशिवत्राता नानावाक्यविशारदः ।
नरगर्वविनाशार्थहृतब्राह्मणबालकः ॥

239. लोकालोकपरस्थानस्थितबालकदायकः ।
द्वारकास्थमहाभोगनानास्त्रीरतिवर्धनः ॥

240. मनस्तिरोधानकृतव्यग्रस्त्रीचित्तभावितः ।


मुक्तिलीला

उद्धव को ज्ञान देने वाले, हंस, सनकादिकों के उपदेशक, कल्कि अवतार, शुक-परीक्षित को मोक्ष देने वाले।

241. मुक्तिलीलाविहरणो मौशलव्याजसंहृतिः ॥

242. श्रीभागवतधर्मादिबोधको भक्तिनीतिकृत् ।
उद्धवज्ञानदाता च पञ्चविंशतिधा गुरुः ॥

243. आचारभक्तिमुक्त्यादिवक्ता शब्दोद्भवस्थितिः ।
हंसो धर्मप्रवक्ता च सनकाद्युपदेशकृत् ॥

244. भक्तिसाधनवक्ता च योगसिद्धिप्रदायकः ।
नानाविभूतिवक्ता च शुद्धधर्मावबोधकः ॥

245. मार्गत्रयविभेदात्मा नानाशङ्कानिवारकः ।
भिक्षुगीताप्रवक्ता च शुद्धसाङ्ख्यप्रवर्तकः ॥

246. मनोगुणविशेषात्मा ज्ञापकोक्तपुरूरवाः ।
पूजाविधिप्रवक्ता च सर्वसिद्धान्तबोधकः ॥

247. लघुस्वमार्गवक्ता च स्वस्थानगतिबोधकः ।
यादवाङ्गोपसंहर्ता सर्वाश्चर्यगतिक्रियः ॥


आश्रयलीला

व्यास, मार्कंडेय, वटपत्रशायी, बुद्धावतार, भागवत रूप में सर्वार्थदायक।

248. कालधर्मविभेदार्थवर्णनाशनतत्परः ।
बुद्धो गुप्तार्थवक्ता च नानाशास्त्रविधायकः ॥

249. नष्टधर्ममनुष्यादिलक्षणज्ञापनोत्सुकः ।
आश्रयैकगतिज्ञाता कल्किः कलिमलापहः ॥

250. शास्त्रवैराग्यसम्बोधो नानाप्रलयबोधकः ।
विशेषतः शुकव्याजपरीक्षिज्ज्ञानबोधकः ॥

251. शुकेष्टगतिरूपात्मा परीक्षिद्देहमोक्षदः ।
शब्दरूपो नादरूपो वेदरूपो विभेदनः ॥

252. व्यासः शाखाप्रवक्ता च पुराणार्थप्रवर्तकः ।
मार्कण्डेयप्रसन्नात्मा वटपत्रपुटेशयः ॥

253. मायाव्याप्तमहामोहदुःखशान्तिप्रवर्तकः ।
महादेवस्वरूपश्च भक्तिदाता कृपानिधिः ॥

254. आदित्यान्तर्गतः कालः द्वादशात्मा सुपूजितः ।
श्रीभागवतरूपश्च सर्वार्थफलदायकः ॥


फलश्रुति

  • जो प्रातः उठकर श्रद्धा और समाधि से इस सहस्रनाम का जप करता है, वह गोविंदपद को प्राप्त करता है।
  • सभी धर्मों से मुक्त, सभी साधनों से रहित व्यक्ति भी केवल इसके धारण मात्र से कृष्ण की पदवी को जाता है।
  • ये नाम चिंतामणि के समान हैं, जो अज्ञानजनित तम का नाश करते हैं और श्रीकृष्ण में दृढ़ भक्ति उत्पन्न करते हैं।

जो कोई साधनों के समूह से कृष्णभक्ति चाहता है, उसे ये नित्य जपने चाहिए – हरि उसे अपना पुरुष बनाकर आत्मार्पण का सुख देते हैं।

255. इतीदं कीर्तनीयस्य हरेर्नामसहस्रकम् ।
पञ्चसप्ततिविस्तीर्णं पुराणान्तरभाषितम् ॥

256. य एतत्प्रातरुत्थाय श्रद्धावान् सुसमाहितः ।
जपेदर्थाहितमतिः स गोविन्दपदं लभेत् ॥

257. सर्वधर्मविनिर्मुक्तः सर्वसाधनवर्जितः ।
एतद्धारणमात्रेण कृष्णस्य पदवीं व्रजेत् ॥

258. हर्यावेशितचित्तेन श्रीभागवतसागरात् ।
समुद्धृतानि नामानि चिन्तामणिनिभानि हि ॥

259. कण्ठस्थितान्यर्थदीप्त्या बाधन्तेऽज्ञानजं तमः ।
भक्तिं श्रीकृष्णदेवस्य साधयन्ति विनिश्चितम् ॥

260. किम्बहूक्तेन भगवान् नामभिः स्तुतषड्गुणः ।
आत्मभावं नयत्याशु भक्तिं च कुरुते दृढाम् ॥

261. यः कृष्णभक्तिमिह वाञ्छति साधनौघै-
र्नामानि भासुरयशांसि जपेत्स नित्यम् ।
तं वै हरिः स्वपुरुषं कुरुतेऽतिशीघ्र-
मात्मार्पणं समधिगच्छति भावतुष्टः ॥

262. श्रीकृष्ण कृष्णसख वृष्णिवृषावनिध्रुग्-
राजन्यवंशदहनानपवर्गवीर्य ।
गोविन्द गोपवनिताव्रजभृत्यगीत
तीर्थश्रवः श्रवणमङ्गल पाहि भृत्यान् ॥


समाप्ति मन्त्राः

॥ इति श्रीभागवतसारसमुच्चये वैश्वानरोक्तं श्रीवल्लभाचार्यविरचितं श्रीपुरुषोत्तमसहस्रनामस्तोत्रं सम्पूर्णम् ॥

🕉🕉🕉🕉🕉🕉🕉🕉🕉🕉🕉🕉🕉
🕉 ॐ नमो भगवते वासुदेवाय 🕉
🕉 नमो भगवते तुभ्यं वासुदेवाय धीमहि 🕉
🕉 प्रद्युम्नाय निरुद्धाय नमः संकर्षणाय च 🕉
🕉🕉🕉🕉🕉🕉🕉🕉🕉🕉🕉🕉🕉

🌼 स्तोत्र का आध्यात्मिक महत्व

1. भक्ति की वृद्धि

इस स्तोत्र का पाठ करने से भगवान के प्रति प्रेम और श्रद्धा बढ़ती है।

2. पापों का नाश

कहा गया है कि इसके जप से जन्म-जन्म के पाप नष्ट हो जाते हैं।

3. मानसिक शांति

यह मन को स्थिर और शांत बनाता है।

4. मोक्ष की प्राप्ति

नियमित पाठ करने वाला व्यक्ति भगवान के धाम को प्राप्त करता है।


📜 पाठ विधि (How to Chant): Purushottam Sahasranama Stotram

  1. सुबह स्नान करके शुद्ध मन से बैठें
  2. भगवान विष्णु या श्रीकृष्ण की मूर्ति/चित्र के सामने दीप जलाएं
  3. “ॐ नमो भगवते वासुदेवाय” मंत्र का जाप करें
  4. इसके बाद सहस्रनाम स्तोत्र का पाठ करें
  5. अंत में भगवान से प्रार्थना करें

🌺 स्तोत्र का सार

इस स्तोत्र में भगवान की विभिन्न लीलाओं—सृष्टि, पालन, संहार, अवतार और भक्तों की रक्षा—का सुंदर वर्णन किया गया है। यह बताता है कि भगवान हर समय अपने भक्तों के साथ रहते हैं और उनकी रक्षा करते हैं।


📚 संबंधित ग्रंथ

  • श्रीमद्भागवत महापुराण
  • विष्णु सहस्रनाम
  • भगवद्गीता

🌟 निष्कर्ष (Conclusion): Purushottam Sahasranama Stotram

पुरुषोत्तम सहस्रनाम स्तोत्र ( Purushottam Sahasranama Stotram ) केवल एक स्तोत्र नहीं, बल्कि भगवान के दिव्य स्वरूप का अनुभव करने का माध्यम है। इसका नियमित पाठ व्यक्ति के जीवन को सकारात्मक दिशा देता है और उसे आध्यात्मिक उन्नति की ओर ले जाता है।

यदि आप जीवन में शांति, सफलता और मोक्ष चाहते हैं, तो इस स्तोत्र का नित्य पाठ अवश्य करें।

Also Read:

विष्णुपञ्जर स्तोत्र | Vishnu Panjara Stotram in Hindi | विष्णु कवच का दिव्य स्तोत्र

📖 भगवान विष्णु के दशावतार (Vishnu Dashavatar in Hindi)– सम्पूर्ण विवरण, कथा और शिक्षा

मृत्युञ्जय महाविष्णु स्तोत्र | Mrityunjaya Mahavishnu Stotra with Hindi Meaning

🚩 कैसे बने भगवान विष्णु तिरुपति बालाजी

🌸🚩 गजेन्द्र मोक्ष कथा – भगवान विष्णु की कृपा से शरणागति का अद्भुत उदाहरण 🌿

Leave a Comment

Your email address will not be published. Required fields are marked *