Site icon Divya Bhasha

श्रीशङ्करनारायण सहस्रनामस्तोत्रम् – हरिहर एकत्व का अद्भुत रहस्य (Shri Shankara-Narayana Sahasranama Stotram – The Divine Mystery of Harihara Oneness)

shankar-narayan-sahasranam-stotra

🌿 परिचय

भारतीय सनातन परंपरा में भगवान शिव और विष्णु को दो नहीं, बल्कि एक ही परब्रह्म स्वरूप माना गया है।
इसी दिव्य सत्य का गूढ़ उद्घाटन करता है —
“श्रीशङ्करनारायण सहस्रनामस्तोत्रम्”, जो हरिहर एकत्व का सर्वोच्च वेदांत रहस्य उजागर करता है।


🔱 हरिहर एकत्व का भाव

हरि (विष्णु) और हर (शिव) वास्तव में एक ही ऊर्जा के दो रूप हैं।
एक संरक्षण का प्रतीक है और दूसरा संहार व परिवर्तन का।
यह स्तोत्र बताता है कि —

“शिवो विष्णुर् विष्णुश्चैव, न भिद्येते कदाचन।”
अर्थात् — शिव और विष्णु में कोई भेद नहीं है, दोनों एक ही परम तत्व हैं।


श्रीशङ्करनारायण सहस्रनामस्तोत्रम्

श्रीगणाधिपतये नमः
श्रीसरस्वत्यै नमः ।
श्रीशङ्करनारायणाय नमः ॥

पूर्वपीठिका

🍁
श्री सूत उवाच —
अथातः संप्रवक्ष्यामि श्रुणुत श्रद्धया द्विजाः ।
अत्यद्भुतमिदं स्तोत्रं रहस्यं सर्वकामदम् ॥ १॥

अर्थ:
श्री सूतजी बोले — हे द्विजो! अब मैं एक अत्यंत अद्भुत और रहस्यमय स्तोत्र का वर्णन करता हूँ, जो सभी कामनाओं को पूर्ण करने वाला है।
🍁
शङ्करः श्रीशयोर्दिव्यनामसाहस्रमुत्तमम् ।
सर्वविद्याप्रदं पुण्यं चतुर्वर्गफलप्रदम् ॥ २॥

अर्थ:
यह श्रीशङ्कर और श्रीहरि — दोनों के दिव्य सहस्रनामों का उत्तम स्तोत्र है, जो समस्त विद्याएँ प्रदान करता है और धर्म, अर्थ, काम, मोक्ष — चारों पुरुषार्थों को देता है।

🍁
शिवकेशवयोरैक्यमिच्छते क्रोडयोगिने ।
नारदः प्रोक्तवान् पूर्वं समन्त्रं सरहस्यकम् ॥ ३॥

अर्थ:
जो साधक शिव और केशव (विष्णु) के अभेद स्वरूप को जानना चाहता है, उसके लिए यह स्तोत्र नारदजी द्वारा पूर्वकाल में क्रोड ऋषि को बताया गया था।

🍁
देवर्षिरेकदाभ्यागात्क्रीडाश्रममनुत्तमम् ।
पुण्यं शुक्तिमतीतीरे दिव्याश्रमसमाकुले ॥ ४॥

अर्थ:
एक बार देवर्षि नारद, शुक्तिमती नदी के तट पर स्थित क्रोड ऋषि के अत्यंत पवित्र और सुंदर आश्रम में पधारे।

🍁
क्रोडः क्रोडीकृततपः सम्पूज्य विधिवन्मुनिम् ।
सुखोपविष्टमुदितमिदं वचनमब्रवीत् ॥ ५॥

अर्थ:
क्रोड ऋषि, जो अत्यंत तपस्वी थे, उन्होंने विधिवत् पूजन कर नारद मुनि को आसन दिया और विनम्रतापूर्वक बोले —

🍁
क्रोडऋषिरुवाच —
धन्योऽस्मि कृतकृत्योऽस्मि भवदागमनेन हि ।
जीवितं सफलं मेद्य तपश्च सफलं श्रुतम् ॥ ६॥

अर्थ:
क्रोड ऋषि बोले — हे मुनिश्रेष्ठ! आपके आगमन से मैं धन्य हुआ, अब मेरा जीवन सफल हुआ, मेरा तप और मेरा श्रवण सार्थक हुआ।

🍁
भगवन् ब्रूहि सर्वज्ञ यदा हरिहरा उभौ ।
एकाकारेण भवतः साक्षात् क्षेत्रं महामुने ॥ ७॥

अर्थ:
हे सर्वज्ञ मुनि! मुझे बताइए, जब हरि और हर (विष्णु और शिव) एकाकार रूप में प्रकट हुए, उस स्वरूप का वास्तविक रहस्य क्या है?

🍁
अभेदविद्यादानेन कृपयानुगृहाण माम् ।
इति संप्रार्थितस्तेन नारदः प्राहतं मुनिम् ॥ ८॥

अर्थ:
हे भगवन्! मुझे उस अभेद-विद्या (शिव-विष्णु एकत्व का ज्ञान) से कृपा कर उपकृत कीजिए —
इस प्रकार प्रार्थना करने पर नारद मुनि ने ऋषि से कहा —

🍁
कस्यापि न मया प्रोक्तं तथाप्युपदिशामि ते ।
सर्वलोकहितार्थाय सद्यः प्रत्ययकारकम् ॥ ९॥

अर्थ:
यह रहस्य मैंने किसी और को नहीं बताया, परन्तु लोकहित की भावना से अब मैं तुम्हें यह अद्भुत और विश्वसनीय उपदेश देता हूँ।

🍁
गोपनीयं प्रयत्नेन न देयं यस्यकस्यचित् ।
विचार्य भक्तियुक्ताय शिष्याय हितकारिणे ॥ १०॥

अर्थ:
इस स्तोत्र को गुप्त रखना चाहिए; इसे किसी सामान्य व्यक्ति को न देना, केवल भक्त और हितकारी शिष्य को ही प्रदान करना चाहिए।

🍁
यथोक्तकारिणा देयं नित्यं श्रद्धानुशालिने ।
क्षिप्रसिद्धिकरं पुण्यं सर्वरोगैकभेषजम् ॥ ११॥

अर्थ:
जो व्यक्ति श्रद्धा और विधि से इसका पालन करता है, उसके लिए यह स्तोत्र शीघ्र सिद्धि प्रदान करने वाला और सभी रोगों का औषध है।

🍁
स्कन्दाय कथितं पूर्वं कैलासे त्रिपुरारिणा ।
सनत्कुमारेण तथा प्राप्तं तस्मान् महामुने ॥ १२॥

अर्थ:
पूर्वकाल में भगवान त्रिपुरारि (शिव) ने कैलास पर्वत पर यह स्तोत्र स्कन्द (कार्तिकेय) को बताया था, और वही सनत्कुमार से नारद मुनि को प्राप्त हुआ।

🍁
सम्मेळितं महामन्त्रं द्वादशाक्षरविद्यया ।
नाम्नां सहस्रं परमं शिवविष्णोर्महात्मनोः ॥ १३॥

अर्थ:
यह सहस्रनाम स्तोत्र द्वादशाक्षर महामंत्र के साथ संयुक्त है और शिव-विष्णु दोनों के परमात्मस्वरूप का परिचायक है।

🍁
तदहं ते प्रवक्ष्यामि लोकानां हितकाम्यया ।
सर्वाभीष्टप्रदं दिव्यमभेदं ज्ञानदं मुने ॥ १४॥

अर्थ:
मैं अब लोककल्याण के लिए वह दिव्य, अभेदज्ञानदायक, सर्वाभीष्टप्रद सहस्रनाम तुम्हें बताऊँगा।

🍁
शिवकेशवयोः साक्षादेकाकारप्रदर्शनम् ।
दिव्यं नामसहस्रं तु चादौ श्रुणु महामुने ॥ १५॥

अर्थ:
हे महामुने! यह सहस्रनाम शिव और केशव के वास्तविक एकत्व का प्रदर्शन करता है — इसे ध्यानपूर्वक सुनो।

🍁
ऋषिर्ब्रह्मा च भगवान् छन्दोनुष्टुप् प्रकीर्तितम् ।
वामभागाङ्कितश्रीश शङ्करो देवता स्वयम् ॥ १६॥

अर्थ:
इस स्तोत्र के ऋषि ब्रह्मा हैं, छन्द अनुष्टुप है, और श्रीशङ्कर नारायण स्वयं इसकी अधिष्ठात्री देवता हैं।

🍁
विनियोगश्च धर्मार्थकाममोक्षफलोदये ।
मूलमन्त्रपदैर्न्यासं कृत्वा देवं विचिन्तयेत् ॥ १७॥

अर्थ:
इस स्तोत्र का विनियोग धर्म, अर्थ, काम और मोक्ष — इन चारों फलों की प्राप्ति के लिए है। साधक को मूल मंत्र के साथ अंगन्यास कर भगवान का ध्यान करना चाहिए।
🍁
ॐ अस्य श्रीशङ्करनारायण सहस्रनामस्तोत्रमहामन्त्रस्य ब्रह्मा ऋषिः ।
अनुष्टुप्छन्दः । श्रीशङ्करनारायणो देवता ।
श्रीशङ्करनारायण प्रीत्यर्थे सहस्रनामस्तोत्र पारायणे विनियोगः ।
ह्रामित्यादि षडङ्गन्यासः ॥

अर्थ:
इस महामंत्र का ऋषि ब्रह्मा हैं, छन्द अनुष्टुप् है, देवता श्रीशङ्करनारायण हैं।
यह पाठ श्रीशङ्करनारायण की प्रीति के लिए विनियोग किया जाता है।

🍁ध्यानम्
ध्यायेन्माणिक्यपीठे सकलसुरगणैः सेव्यमानं समन्तात्
बिभ्राणं पाणिपद्मैः पशुधरवरं मध्यराजत्कराब्जम्।
व्याघ्रःश्रीकृत्ति पीताम्बरधरवहिराट् कौस्तुभाकल्पमीशं
गौरीलक्ष्मीसमेतं स्पटिकमरकतोद्भासिताङ्गं शुभाङ्गम्॥

अर्थ:
ध्यान में उस श्रीशङ्करनारायण को देखना चाहिए —
जो माणिक्य रत्नों के पीठ पर विराजमान हैं, जिनकी सेवा देवगण चारों ओर से करते हैं,
जो अपने करकमलों में वर, अभय, पशु और कमल धारण करते हैं;
जिनके अंगों में व्याघ्रचर्म और पीताम्बर दोनों सुशोभित हैं;
जिनके वक्षस्थल पर कौस्तुभ मणि चमकती है;
जो गौरी और लक्ष्मी सहित एक ही देह में संयुक्त हैं;
जिनका शरीर स्फटिक और मरकत के समान प्रभामय और अत्यंत शुभ है।

ब्रह्मोवाच –
ॐ शङ्करः श्रीधरः श्रीदः श्रीकरः श्रीदबान्धवः ।
श्रीवत्सकौस्तुभधरः श्रीनाथाङ्गपरिष्कृतः ॥ १॥

श्रीसदोपास्यपादाब्जः श्रीनिधिः श्रीविभावनः ।
श्रीकण्ठः शाश्वतः शान्तः शार्ङ्गी शर्वःशुभोदयः ॥ २॥

शशाङ्कशेखरः श्यामः शूली शङ्खधरः शिवः ।
शुचिः शुचिकरः श्रीमान् शरणागतपालकः ॥ ३॥

शिपिविष्टः शिवनुतः शेषशायी शुभङ्करः ।
शिवेतरघ्नः शान्तात्मा शान्तिदः शक्तिभृत्पिता ॥ ४॥

श्रुतिगम्यश्यतधृतिः शतानन्दः श्रुतिस्थितिः ।
शम्बरारिपिता शूरः शासिताशेषपातकः ॥ ५॥

शबरः शिवदः शिष्टः शिष्टेष्टः शिष्टरक्षकः ।
शरण्यः शरजन्मात्मा शशाङ्कर्न्यर्ककोटिभः ॥ ६॥

शर्वरीशधरः शौरिः शिशिरः श्रोत्रियप्रियः ।
शम्भुः शक्रार्तिहरणः शैलावासः शुचिस्मितः ॥ ७॥

शिवारम्भः शिवतमः शरभः शैशवाकृतिः ।
शरद्घनसमच्छायः शिशुपालशिरोहरः ॥ ८॥

षडक्षरात्मा पट्कोणः सुदर्शनकराम्बुजः ।
षड्भावधर्मरहितः पड्गुणैश्वर्यसंयुतः ॥ ९॥

षडङ्गरूपी पट्कोशः षट्त्रिंशः षण्मुखाश्रयः ।
षोडशस्त्रीप्रियः पड्जप्रमुखः स्वररञ्जितः ॥ १०॥

पड्विंशकः षडाधारनिलयः पट्कलात्मकः ।
सर्वज्ञः सर्वगः साक्षी सर्वपूज्यः सुरेश्वरः ॥ ११॥

सर्वगः सर्वभृत्सर्वः सर्वेशः सर्वशक्तिमान् ।
सर्वाधारः सर्वसारः सर्वात्मा सर्वभावनः ॥ १२॥

सर्वावासः सर्वशास्ता सर्वदृक्सर्वतोमुखः ।
सर्वजित् सर्वतोभद्रः सर्वार्थः सर्वदुःखहा ॥ १३॥

सर्वानन्दस्सर्वरूपः सारङ्गः सर्वकारणः ।
सर्वातिशायी सूत्रात्मा सूत्रकृत् सद्गुणःसुखी ॥ १४॥

सूक्ष्मः सौदामिनीकान्तः सिन्धुशायी सनातनः ।
सङ्कर्षणः सुरसखः स्वर्णदीजनकः स्वराट् ॥ १५॥

सेव्यसेवितपादाब्जः सत्यगोप्ता सदात्मकः ।
सम्पत्प्रदः समः सत्यसङ्कल्पः सत्यकामहा ॥ १६॥

सत्यसन्धः सत्यरूपी सत्यवेद्यस्सदागतिः ।
स्थाणुः सत्येश्वरः स्थूलः स्थविष्ठः सुभगः स्थिरः ॥ १७॥

समुद्रः सम्मतः स्वामी सर्वपातकभञ्जनः ।
स्मृताघहारी सौभाग्यदायकः सदसत्पतिः ॥ १८॥

स्वर्णाध्यक्षः स्वर्णभूषः स्वाहाकारः सुधाकरः ।
सन्ध्यारुणजटाजूटः संसारार्णवतारकः ॥ १९॥

स्तुत्यः सभापतिः स्वस्थः सुधांशुरविलोचनः ।
सरसीरुहमध्यस्थः सुन्दरः सुन्दरीश्वरः ॥ २०॥

सुधाकुम्भधरस्सोमः सर्वव्यापी सदाशिवः ।
सर्ववेदान्तसंवेद्यः सुशीलः साधुकीर्तिदः ॥ २१॥

सुदर्शनः सुखकरः सुमनाः सूर्यतापनः ।
साम्बस्सोमधरः सौम्यः सम्भाव्यः स्वस्तिकृत् स्वरः ॥ २२॥

सहस्रशीर्षा सुमुखः सहस्राक्षः सहस्रपात् ।
स्वभक्तजनकल्याणः सर्वलोकेश्वरेश्वरः ॥ २३॥

सुवर्णः सूर्यबिम्बस्थः सत्यः संवत्सरात्मकः ।
सर्वास्त्रधारी सङ्ग्रामविजयी सर्वशास्त्रवित् ॥ २४॥

सहस्रबाहुः सरसः सर्वसत्वावलम्बनः ।
स्वभूः सीतापतिः सूरिः सर्वशास्त्रार्थकोविदः ॥ २५॥

स्वभावोदारचरितः सच्चिदानन्दविग्रहः ।
सरीसृपेन्द्रकटकः सुरेन्द्रात्मजसारथिः ॥ २६॥

सर्वंसहः सर्वधामा सनकादिमुनीडितः ।
स्मरारिः स्मेरवदनः सृष्टिस्थित्यन्तकारणः ॥ २७॥

सैरन्ध्रीपूजितपदः सामगानाधिकप्रियः ।
सिन्धुरेन्द्राजिनधरः सीरपाणिः समीरणः ॥ २८॥

सद्गतिः सङ्गरहितः साधुकृत् सत्पतीश्वरः ।
हंसो हरिःहयारूढो हृषीकेशो हविष्पतिः ॥ २९॥

हिरण्यगर्भभूर्होता हविर्भोक्ता हिरण्मयः ।
हरिकेशो हरोहारी हव्यवाहो हरीश्वरः ॥ ३०॥

हर्यक्षरूपी हितकृत् हयग्रीवो हतान्तकः ।
हरित्पालो हिरण्याक्षरिपुर्हरिहरात्मकः ॥ ३१॥

हस्तीन्द्रवरदो हंसवाहनो हरिणाङ्कधृक् ।
हेमांशुको हेममाली हेमाङ्गो हेमकुण्डलः ॥ ३२॥

हालाहलाङ्कितगळो हली हानिविवर्जितः ।
ळपञ्चलक्षभूतेशो ळाप्तेजोवायुखेश्वरः ॥ ३३॥

क्षमाभृत् क्षपणः क्षेमः क्षेत्रज्ञः क्षेत्रनायकः ।
क्षौमाम्बरः क्षौद्रवाक्च क्षाळिताघः क्षितीश्वरः ॥ ३४॥

क्षेमङ्करः क्ष्वेळहरः क्षीराम्बुनिधिकेतनः ।
अनन्तलक्षणोनन्तोस् नीशोस् नीहोस् व्ययोपरः ॥ ३५॥

अतीन्द्रियो भयोस्चिन्त्योस्चलोद्भुत पराक्रमः ।
अणिमादिगुणाधारोस्ग्रगण्योस्चिन्त्यशक्तिमान् ॥ ३६॥

अभिरामोस्नवद्याङ्गोस्निर्देश्योस्मृतविग्रहः ।
अजोद्रितनयानाथोस्प्रमेयोस्मित विक्रमः ॥ ३७॥

अशेषदेवतानाथो घोरोस्विद्याधिनाशनः ।
अप्रतर्क्योपरिच्छेद्योजातः शत्रुरनामयः ॥ ३८॥

अनादिमध्यनिधनोस्नङ्गशत्रुरधोक्षजः ।
अकल्मषोभिरूपोभिरामोस्नर्घ्य गुणोस्च्युतः ॥ ३९॥

अकारादिक्षकारान्तमातृकावीतविग्रहः ।
आनन्दरूप आनन्द आनन्दघन आश्रयः ॥ ४०॥

आराध्य आयतापाङ्ग आपन्नार्तिविनाशनः ।
इन्द्रादिदेवताधीश इष्टापूर्तिफलप्रदः ॥ ४१॥

इतिहासपुराणज्ञ इच्छाशक्तिपरायणः ।
इळापतिरिळानाथ इन्दिराजानिरिन्दुभाः ॥ ४२॥

इन्दीवरदळश्याम इद्धतेजा इभाननः ।
ईश ईश्वर ईशान ईतिभीतिनिवारणः ॥ ४३॥

ईक्षाकृतजगत्सृष्टिरीड्य ईहाविवर्जितः ।
उत्कृष्टशक्तिरुत्कृष्ट उदिताम्बरमार्गणः ॥ ४४॥

उपेन्द्र उरगाकल्प उत्पत्तिस्थितिनाशकृत् ।
उमापतिरादाराङ्ग उष्ण उत्पत्तिवर्जितः ॥ ४५॥

उष्णांशुरुज्वलगुण उन्नतांस उरुक्रमः ।
उपप्लवभिदुद्गीथ उमाप्रिय उदद्रवः ॥ ४६॥

उत्साहशक्तिरुद्दामकीर्तिरुद्धृतभूधरः ।
ऊर्ध्वरेता ऊर्ध्वपदः ऊर्वीकृतचराचरः ॥ ४७॥

ऋद्धिकर्ता ऋतुकरो ऋणत्रयविमोचनः ।
ऋग्यजुःसामवेदात्मा ऋजुमार्गप्रदर्शनः ॥ ४८॥

एक एकान्तनिलय एजिताशेषपातकः ।
एणाङ्कचूड एकात्मा एधनीयस्सुखाकरः ॥ ४९॥

ऐङ्कार ऐश्वर्यकर ऐहिकामुष्मिकप्रदः ।
ओङ्कारमूर्तिरोङ्कार ओङ्कारार्थप्रकाशकः ॥ ५०॥

औदार्यनिधिरौन्नत्यप्रद औषधनायकः ।
अम्बिकापतिरम्भोजदृगम्बुजसमद्युतिः ॥ ५१॥

अञ्जनासुतसेनव्याङ्घ्रिरन्धकष्नोङ्गदाश्रयः ।
अम्बरात्माङ्गनार्था०गो अम्बरीषवरप्रदः ॥ ५२॥

अस्थिमालोक्षयनिधिरष्टैश्वर्यप्रदोक्षरः ।
अष्टाङ्गयोगसाध्योष्टमूर्तिरष्टवसुस्तुतः ॥ ५३॥

कपर्दी कौस्तुभधरः कालकालः कलानिधिः ।
कर्पूरधवळः कृष्णः कपाली कंसमर्दनः ॥ ५४॥

कैलासवासी कमठः कृत्तिवासः कृपानिधिः ।
कामेशः केशवः कुल्यः कैवल्यफलदायकः ॥ ५५॥

कुबेरबन्धुः कौन्तेयसारथिः कनकार्चितः ।
कैटभारिः क्रतुध्वंसी क्रतुभुक्क्रतुपालकः ॥ ५६॥

कल्पहारहितः कर्ता कर्मबन्धहरः कृतिः ।
कोदण्डपाणिः कवची कुण्डलीकळभूषणः ॥ ५७॥

किरातविग्रहः कल्की किङ्किणीजालभूषणः ।
कौशेयवसनः क्रान्तः कुशलः कीर्तिवर्धनः ॥ ५८॥

कृशानुरेताः काळीयभञ्जनः क्षेशनाशनः ।
कदम्बवासी कल्याणदायी कमललोचनः ॥ ५९॥

कुप्यः कुक्षिस्थभुवनः क्रान्ताशेषचराचरः ।
कोटिवैश्रवणश्रीदः कोटिमन्मथसुन्दरः ॥ ६०॥

कोटीन्दुजगदानन्दी कोटिब्रह्माण्डपालकः ।
कोटिसूर्यप्रतीकाशः कोटियज्ञ समाह्वयुः ॥ ६१॥

कोटिब्रह्मसृगैश्वर्यः कोटिशक्तिपरीवृतः ।
खण्डेन्दुशेखरः खण्डी खट्वाङ्गी खगवाहनः ॥ ६२॥

ख्यातितः ख्यातिमान् खस्थः खेचरः खेचरेडितः ।
खरारिः खण्डपरशुः खण्डेन्दुनिटिलोज्वलः ॥ ६३॥

खण्डितप्रणताघौघः खेदहृत् खेटकायुधः ।
गङ्गाधरो गिरिधरो गिरिध्वनी गदाधरः ॥ ६४॥

गङ्गाप्रबोधो गोविन्दो गौरीशो गरुडध्वजः ।
गिरीशो गोपतिर्गोप्ता गोमान्तो गोक्षिगौरवः ॥ ६५॥

गोवर्धनधरो गोप्यो गिरिबन्धुर्गुहाश्रयः ।
गम्भीरो गगनाकारो गद्यपद्यपरिष्कृतः ॥ ६६॥

गरीयान् ग्रामणिर्गण्यो गोपालो गोधनप्रदः ।
गुरुर्गानप्रियो गोष्ठी गुणातीतो गुणाग्रणिः ॥ ६७॥

गायत्रीवल्लभो गेयो गन्धर्वकुलवन्दितः ।
ग्रहपीडाहरो गोधो गतिभ्रष्टगतिपदः ॥ ६८॥

घनाघनो घनश्यामो घण्टाकर्णवरप्रदः ।
घण्टाविभूषणो घोरो घस्मरो घसृणान्तकः ॥ ६९॥

घृणीर्घृणानिधिर्घोषो घातिताखिलपातकः ।
घूर्णिताशेषभुवनो घटकेशो घृतप्रियः ॥ ७०॥

ङान्तसारस्वरमयो ङान्तसामार्थतत्ववित् ।
चन्द्रपीडश्चन्द्रपाणिः चन्द्रकान्तश्चतुर्भुजः ॥ ७१॥

चराचरपिता चण्डश्चण्डीशश्चण्डविक्रमः ।
चिद्रूपश्चेतनाधीशश्चिन्तितार्थप्रदायकः ॥ ७२॥

चिरन्तनश्चिराराध्यश्चित्रवेषश्चिदम्बरः ।
चिद्घनश्चिन्मयश्चित्रः चिदानन्दश्चिदम्बुधिः ॥ ७३॥

चन्द्रायुधश्चन्द्रमुखश्चन्द्रिकाधवळस्मितः ।
चित्रभानुश्चित्ररूपः चित्रवीर्यश्चराचरः ॥ ७४॥

चित्रकर्माश्चित्रगतिः चन्द्रश्चाणूरमर्दनः ।
चतुरः चतुरास्येड्यः चतुर्वर्गफलप्रदः ॥ ७५॥

चार्वङ्गश्चर्वणपरश्चारुचन्दनचर्चितः ।
चामीकरगृहान्तस्थश्चामरानिलसेवितः ॥ ७६॥

चिन्तामणिश्छिन्नतपश्चूर्णितापन्महाचलः ।
छन्दोमयः छिन्नपाशः छन्दोगश्छिन्नसंशयः ॥ ७७॥

छेदितासुरशस्त्रास्त्रः छेदिताखिलपातकः ।
छादितात्मप्रभावश्च छत्रीकृतफणीश्वरः ॥ ७८॥

जगद्धर्ता जगद्भर्ता जगज्ज्येष्ठो जनार्दनः ।
जगत्प्राणो जगद्भाव्यो जगज्योतिर्जगन्मयः ॥ ७९॥

जगद्भन्धुर्जगत्साक्षी जगदादिर्जगत्पतिः ।
जन्हुजालङ्कृतजटो जाह्नवीजनको जयः ॥ ८०॥

जैत्रो जलन्धरहरो जरामृत्यु निवारणः ।
जानकीवल्लभो जेता जितक्रोधो जितेन्द्रियः ॥ ८१॥

जितात्मा जितपञ्चेषुर्जितासुर्जीवितेश्वरः ।
जाड्यहारी जन्महरो ज्योतिर्मूर्तिर्जलेश्वरः ॥ ८२॥

झल्लरीवाद्यमुदितो झषकेतनदर्पहा ।
ज्ञानगम्यो ज्ञानपालो ज्ञानात्मा ज्ञानसागरः ॥ ८३॥

ज्ञातृज्ञानश्लेयरूपो ज्ञानदो ज्ञानदीपकः ।
टङ्काक्षसूत्रहस्ताब्जष्टङ्कीकृतरसातलः ॥ ८४॥

ठकारयुक्तमन्त्रेड्यष्टान्तमन्त्रप्रसादकः ।
डमरुव्यसहस्ताग्रो डिम्बिकासुरनाशनः ॥ ८५॥

डाकिनीगणसंवीतो डोलाखेलनलालसः ।
डिण्डीरपुञ्जधवळो डिण्डिमध्वनिसेवितः ॥ ८६॥

ढक्कानिनादसंप्रीतो डुण्ढिविघ्नेशपूजितः ।
णपञ्चलक्षसंप्रीतो णान्तव्याकरणार्थवित् ॥ ८७॥

त्रिगुणात्मा त्रिकालज्ञस्त्रिपुरारिविक्रमः ।
त्रिलोचनस्तीर्थपादास्त्रिलोकेशस्त्रयीमयः ॥ ८८॥

त्रयीवेद्यस्त्रयीश्वासस्त्रिशूली तार्क्ष्यकेतनः ।
तेजोमण्डलदुर्धर्षस्तापत्रयनिवारणः ॥ ८९॥

स्तुत्यः स्तोत्रप्रियस्तुष्टस्तपस्तोमफलप्रदः ।
तपनस्तापसस्तापहारी तापसवल्लभः ॥ ९०॥

तारकस्ताटङ्कारातिस्तारकब्रह्ममन्त्रवित् ।
थबीजमन्त्रसन्तुष्टस्थवर्णप्रतिपादकः ॥ ९१॥

दुर्वासा दौपदीवन्द्यो दुःखाब्दि बडबानलः ।
दैत्यारिर्दक्षिणामूर्तिर्दुग्धाम्भोनिधिसंश्रयः ॥ ९२॥

दारिद्र्यवनदावाग्निर्दत्तात्रेयो दुरासदः ।
देवदेवो दृढप्रज्ञोदान्तो दुर्लभदर्शनः ॥ ९३॥

दामोदरो दानशीलो दयाळुर्दीनवत्सलः ।
दक्षो दक्षाध्वरध्वंसी दुःशासनकुलान्तकः ॥ ९४॥

दुरन्तमहिमा दूरो दुष्पारो दुष्ट्रधर्षणः ।
दुर्ज्ञेयो दुर्जयो दीर्घबाहुर्दुष्टनिबर्हणः ॥ ९५॥

दिगीशो दितिसम्पूज्यो दिग्वासा दिविषस्पतिः ।
दशकण्ठासुरश्रेणिपूजिताङ्घ्रिसरोरुहः ॥ ९६॥

दण्डकारण्यसञ्चारी दण्डपाणिसमर्चितः ।
दण्डितासुरदोर्दण्डो दशश्चन्दननन्दनः ॥ ९७॥

दहराकाशमध्यस्थो देहकृद्भयनाशनः ।
दरहासो दयामूर्तिर्दिव्यकीर्तिर्दिवस्पतिः ॥ ९८॥

ध्यानगम्यो ध्येयमूर्तिर्ध्यानातीतो धुरन्धरः ।
धन्वी धर्मो धनाध्यक्षो ध्यातृपापनिषूदनः ॥ ९९॥

धृष्टिर्धृतिप्रदो धाता धार्मिको धर्मपालकः ।
धूर्जटिर्धेनुकरिपुर्धत्तूरकुसुमप्रियः ॥ १००॥

धूष्पतिर्धूतपापौघो धनदो धन्यसेवितः ।
नटेशो नाट्यकुशलो नीलकण्ठो निरामयः ॥ १०१॥

नित्यदो नित्यसन्तुष्टो नित्यानन्दो निराश्रयः ।
निर्विकारो निराधारो निष्प्रपञ्चो निरुत्तरः ॥ १०२॥

निरञ्जनो निर्विकल्पो निर्लेपो निरुपद्रवः ।
नरो नियन्त्रकल्याणो नरसिंहो नरेष्टदः ॥ १०३॥

नारायणो नराधीशो निवृत्तात्मानिगूढगः ।
नन्दीशो नन्दतनयो नाकेशो नरकान्तकः ॥ १०४॥

पिनाकी पङ्कजकरः पूर्णः पूर्णार्थकारकः ।
पुराणपुरुषः पुण्यः पटुः पशुपतिः परः ॥ १०५॥

प्रियंवदः प्रियकरः प्रणवः प्रणवार्थकः ।
परमात्मा परब्रह्मा परञ्ज्योतिः परन्तपः ॥ १०६॥

परार्थः परमार्थज्ञः परतत्त्वावबोधकः ।
परानन्दः पराव्यक्तः परन्धामा परोदयः ॥ १०७॥

पद्मार्चितः पद्मनाभः पद्मेशः पद्मबान्धवः ।
परेशः पार्थवरदः पशुपाशविमोचकः ॥ १०८॥

पार्वतीशः पीतवासाः पुरन्दरसुरार्चितः ।
पुण्डरीकाजिनधरः पुण्डरीकदळेक्षणः ॥ १०९॥

पुण्डरीकपुराध्यक्षः पुण्डरीकसमप्रभः ।
पुण्यशीलः पुण्यकीर्तिः पुण्यगम्यः पुरान्तकः ॥ ११०॥

पूतनाजीवितहरः पूतनामा पुरातनः ।
फणिभूषः फणिपतिः फणिकुण्डलमण्डितः ॥ १११॥

फणीन्द्रशायी फालाक्षः फलभुक् फलदायकः ।
ब्रह्माङ्गहा बलिध्वंसी ब्रह्मविद् ब्रह्मवित्तमः ॥ ११२॥

ब्रह्मज्योतिर्ब्रह्मकृतिः ब्रह्मण्यो ब्रह्मवन्दितः ।
ब्रह्मेन्द्रवरदो ब्रह्मपारगो ब्रह्मवत्सलः ॥ ११३॥

ब्रह्माण्डविग्रहो ब्रह्म बृहत्तेजो बृहत्तपः ।
बहुशक्तिर्बालरूपो बलोन्माथिर्बलोत्कटः ॥ ११४॥

बन्धुरो बाणवरदो बुध्यो बोधात्मको बुधः ।
भगो भूतपतिर्भीमो भीष्ममुक्तिप्रदो भवः ॥ ११५॥

भाग्यदो भगवान् भोगी भवो भीतभयापहः ।
भगनेत्रहरो भद्रो भस्मोद्धूळितविग्रहः ॥ ११६॥

भस्मशायी भवानीशो भूतात्मा भूतनायकः ।
भार्गवो भार्गवगुरुः भुक्तिमुक्तिफलप्रदः ॥ ११७॥

भवप्रियो भवद्वेषी भोक्ता भुवनपालकः ।
महेश्वरो महायोगी महावीरो महामनाः ॥ ११८॥

महाकर्मा महाकीर्तिर्महौजा महिमोद्धतः ।
महौषधिर्महीभर्ता महोदारो महामतिः ॥ ११९॥

महानन्दो महापुण्यो महाभाग्यो महागुणः ।
महारथो महाधन्वी महाविद्यो महोदयः ॥ १२०॥ १२०॥

महापातकविध्वंसी महोरगवरप्रदः ।
महालिङ्गो महाश‍ृङ्गो महामोहप्रभञ्जनः ॥ १२१॥

महाप्रभावो महिमान् मणिमाणिक्यभूषणः ।
मृत्युञ्जयो मधुध्वंसी मायेशो माधवो मुनिः ॥ १२२॥

मोहहर्ता मोक्षदाता मुकुन्दो मदनान्तकः ।
मुरारिर्मङ्गलकरो मङ्गलेशो मनोहरः ॥ १२३॥

मार्ताण्डमण्डलान्तस्थो मार्कण्डेयशरण्यदः ।
मन्युमान् मन्युफलदो मन्युर्मन्युपतिर्महान् ॥ १२४॥

यशस्वी यज्ञवाराहो यज्ञाङ्गो यज्ञसारथिः ।
यजमानो यज्ञपालो यज्ञो यज्ञफलप्रदः ॥ १२५॥

यन्त्रिताफौघसञ्चारो यमभीतिहरो यमि ।
योगीयोगजनानन्दू योगीशो योगदर्शकः ॥ १२६॥

यतात्मा यादवपतिः यक्षो यक्षसखो युवा ।
रामार्चितो रमानाथो रुद्रो रुद्रविमोहनः ॥ १२७॥

राज्यप्रदो रामभद्रो रम्यो रामो रणाग्रणिः ।
राजराजार्चितपदो रावणारी रणोद्धतः ॥ १२८॥

रथाङ्गपाणी रुचिरो रत्नग्रैवेयकाङ्गदः ।
रत्नसिंहासनासीनो रजताद्रिनिकेतनः ॥ १२९॥

रत्नाकरो राजहंसो रोचिष्णू रोगभेषजः ।
राकेन्दुवदनो रौद्रो रूपो रौरवतारकः ॥ १३०॥

लोकबन्धुर्लोकसाक्षी लोकनाथो लयातिगः ।
लक्ष्यो लक्षपतिर्लक्ष्मीः लक्ष्मणो लक्ष्मणाग्रजः ॥ १३१॥

लावण्यजलधिर्लोलकुण्डलो ललिताकृतिः ।
ललाटोद्भूतदहनो लाभो लङ्केशपालकः ॥ १३२॥

विश्वामरेश्वरो विद्वान् वरदो वासवानुजः ।
वामदेवो वासुदेवो वन्द्यो विष्णुर्वृषाकपिः ॥ १३३॥

वैकुण्ठवासी विश्वात्मा विश्वभृद्विश्वभावनः ।
विश्वनाथो विश्वधामा विश्वसृग्विश्वपालकः ॥ १३४॥

विश्वमूर्तिर्विश्वरूपो विश्वदीप्तिर्विचक्षणः ।
विरूपाक्षो विशालाक्षो वृषाङ्को वृषभान्तकः ॥ १३५॥

वीतरागो वीतमदो वीतभीतिर्विमत्सरः ।
वियतात्मा विधुर्वैद्यो व्योमकेशो वियत्पदः ॥ १३६॥

वाक्पतिर्वातरशनो वनमाली वनेश्वरः ।
वल्लभो वल्लवीनाथो वर्यो वासुकिकङ्कणः ॥ १३७॥

विष्वक्सेनो वषट्कारो वरिष्ठो वरदक्षकः ।
वाग्मी विज्ञानजलधिर्वाक्प्रदो वाङ्मयो विभुः ॥ १३८॥

विधिर्विधातृजनको वागतीतो वशंवदः ।
वदान्यो विविधाकारो वर्णी वर्णाश्रमाधिपः ॥ १३९॥

व्यासो व्याघ्राजिनधरो वज्रपाणिर्विरोचनः ।
विभावसुर्विविक्तात्मा विशोको विजरो विराट् ॥ १४०॥

वेदान्तवेद्यो वेदात्मा वराहो विषमेक्षणः ।
वृन्दारजनमन्दारो वाञ्छितार्थफलप्रदः ॥ १४१॥

इति श्रीशङ्करनारायणसहस्रनामस्तोत्रं सम्पूर्णम् ॥

॥ ॐ तत्सत् शङ्करनारायणार्पणमस्तु ॥

🍁पाठ फलश्रुति- अर्थ सहित 🍁

उत्तरपीठिका —

🍁
इति ते कथितं दिव्यं नामसाहस्रमुत्तमम् ।
रहस्यं सर्वमन्त्राणां स्तोत्राणामुत्तमोत्तमम् ॥१

अर्थ:
हे मुनिश्रेष्ठ! मैंने तुम्हें यह दिव्य और सर्वोत्तम सहस्रनाम बताया —
यह सभी मंत्रों और स्तोत्रों में सबसे महान, परम रहस्यमय और पवित्र है।

🍁
सर्वपापहरं पुण्यं सर्वरोगैकभेषजम् ।
सर्वसम्पत्करं नृणां सर्वाभीष्टप्रदायकम् ॥१

अर्थ:
यह सहस्रनाम सभी पापों को नष्ट करने वाला,
सभी रोगों की औषधि समान,
संपत्ति और इच्छाओं की पूर्ति देने वाला है।

🍁
पठतां श‍ृण्वतां नित्यं भक्तियुक्तेन चेतसा ।
समस्तरोगशमनं दुःखदारिद्र्यनाशनम् ॥३

अर्थ:
जो भक्त भाव से इस स्तोत्र का नित्य पाठ या श्रवण करता है,
उसके सभी रोग, दुःख और दरिद्रता नष्ट हो जाती है।

🍁
एतन्नामसहस्रेण तुल्यमन्यन्न विद्यते ।
शम्भोः पञ्चशतानि स्युः विष्णोः पञ्चशतानि च ॥४

अर्थ:
शिव और विष्णु के पाँच-पाँच सौ नाम इस सहस्रनाम में समाहित हैं —
अतः इस जैसा और कोई स्तोत्र तुल्य नहीं है।

🍁
यत्र नामानि राजन्ते क्रमात्सम्मिळितानि च ।
मौक्तिकान्तरितेन्द्राक्षमालेयं हृदयङ्गमा ॥५

अर्थ:
जैसे मोतियों की माला में मनके एक सूत्र से जुड़े हों,
वैसे ही इस सहस्रनाम में शिव और विष्णु के नाम हृदय को मोह लेने वाले हैं।

🍁
पुण्यं नामसहस्रेण भक्त्या सम्पूजयन्ति ये ।
पुष्पैर्नानाविधैः पत्रैः बिल्वैश्च तुलसीदळैः ॥६

अर्थ:
जो भक्त इस सहस्रनाम द्वारा शिव-विष्णु की उपासना करते हैं,
और उन्हें बिल्वपत्र, तुलसीपत्र, विविध पुष्पों से पूजते हैं —
वे महान पुण्य प्राप्त करते हैं।

🍁
लिङ्गरूपिणमीशानं नारायणमनामयम् ।
तेषां सञ्जायतेभीष्टमचिरान्नात्र संशयः ॥७

अर्थ:
जो भक्त शिवलिंगरूप ईशान और नारायण का एकसाथ पूजन करते हैं,
उनकी सभी मनोकामनाएँ शीघ्र ही पूर्ण होती हैं — इसमें कोई संदेह नहीं।

🍁
स कृत्वा भक्तिभावेन तेषां फलमिदं श‍ृणु ।
अग्निष्टोमसहस्राणि वाजपेयशतानि च ॥८

अर्थ:
जो भक्त भावपूर्वक इस स्तोत्र का पाठ करते हैं,
उन्हें हजारों अग्निष्टोम यज्ञ और सैकड़ों वाजपेय यज्ञों के समान फल प्राप्त होता है।

🍁
काश्यादिपुण्यक्षेत्रेषु कुर्वतां यत्फलं लभेत् ।
कुरुक्षेत्रेषु गोकर्णे प्रभासे च महोदये ॥९
चन्द्रसूर्योपरागेषु स्वर्णभारशतानि च ।
कपिलागोसहस्राणि ब्राह्मणेभ्यो यथाविधि ॥१०

अर्थ:
काशी, गोकर्ण, प्रभास आदि तीर्थों में जो पुण्य यज्ञ, दान या तप से प्राप्त होता है,
वह सब फल इस स्तोत्र के पाठ मात्र से प्राप्त होता है।

🍁
श्रोत्रियेभ्यः कुटुम्बिभ्यः ददतां यत्फलं लभेत् ।
तत्फलं कोटिगुणितं लभ्यते तैर्न संशयः ॥११

अर्थ:
जो दान ब्राह्मणों को विधिपूर्वक देने से जो फल मिलता है,
उसका करोड़ गुना फल इस सहस्रनाम के जप से प्राप्त होता है।

🍁
स्वर्गादिपुण्यलोकेषु भुक्त्वा भोगान्यनेकशः ।
अद्वैतज्ञानमासाद्य सर्वमोहनिकृन्तनम् ॥१२

अर्थ:
इस स्तोत्र के जप से मनुष्य स्वर्गादि लोकों में सुख भोगकर,
अन्ततः अद्वैत ज्ञान प्राप्त कर मोहन (अज्ञान) से मुक्त होता है।

🍁
कैवल्यमाप्यते साक्षाच्छिवश्रीशप्रसादतः ।
शत्रुभिः पीडितो राजा जयकामस्तु कारयेत् ॥१३

अर्थ:
इस स्तोत्र के प्रभाव से भक्त शिव-नारायण की कृपा से कैवल्य (मोक्ष) प्राप्त करता है।
यदि कोई राजा शत्रु से पीड़ित हो तो इसका पाठ करने से विजय प्राप्त करता है।

🍁
अर्प्यान्नामसहस्रेण बिल्वपत्रैश्च कोमलैः ।
तुळसीमञ्जरीभिश्च द्रोणार्ककुसुमैस्तथा ॥१४
तत्कालोद्भवैः पष्पैः शिवकेशवमन्वहम् ।
लक्षपत्रैर्लक्षपुष्पैर्मासं मासद्वयं तु वा ॥१५

अर्थ:
जो भक्त शिव-केशव को बिल्वपत्र, तुलसीमंजरी, अर्कपुष्प या ताजे फूलों से
एक मास या दो मास तक नित्य सहस्रनाम से पूजता है,
उसकी सभी मनोकामनाएँ पूर्ण होती हैं।

🍁
शत्रवस्तस्य नश्यन्ति राज्यं निष्कण्टकं भवेत् ।
यं यं कामं समुद्दिश्य नामसाहस्रपूजनम् ॥१६
करोति शङ्करं श्रीशं तन्तमाप्नोति मानवः ॥
षोडशैर्नाममन्त्रैस्तु द्वादशार्णमथापि वा ॥१७

अर्थ:
ऐसे साधक के शत्रु नष्ट हो जाते हैं और उसका राज्य या जीवन बाधारहित हो जाता है।
जिस कामना से यह सहस्रनाम जपा जाता है, वह निश्चित रूप से सिद्ध होती है।

🍁
सहस्रं प्रत्यहं जप्त्वापठेन्नामसहस्रकम् ।
तस्य सिद्धिकरं चैव नात्र कार्या विचारणा ॥१८
प्रदोषे यः पठेद्भक्त्या नामसाहस्रमुत्तमम् ।
प्रसन्नो मनुते साक्षात् स्कन्दवक्त्रं महेश्वरः ॥१९

अर्थ:
जो प्रतिदिन इसका पाठ करता है, वह शीघ्र सिद्धि प्राप्त करता है।
विशेषकर प्रदोषकाल में इसका पाठ करने पर स्वयं महेश्वर प्रसन्न होकर स्कन्द के मुख से बोलते हैं।

🍁
बहुनात्र किमुक्तेन सर्वाभीष्टप्रदं मुने ।
भुक्तिदं मुक्तिदं पुण्यं स्तोत्रनामसहस्रकम् ॥२०
शिवविष्णुप्रियकरं कथितं तव पुत्रक ।
स्कन्दाय कथितं पूर्वं कैलासे किल शम्भुना ॥२१

अर्थ:
हे मुनि! अधिक कहने की आवश्यकता नहीं —
यह स्तोत्र भक्ति, भोग और मोक्ष तीनों प्रदान करने वाला है।
इसे स्वयं भगवान शंकर ने कैलास पर्वत पर अपने पुत्र स्कन्द को बताया था।

🍁
तेन मे मेरुशिखरे प्राप्तपुण्यप्रभावतः ।
अद्योपदिष्टं ते पुत्र सर्वलोकहिताय हि ॥२२
इत्युक्त्वापूजितो ब्रह्मा नारदेन महर्षिणा ।
प्रहृष्ट मानसैर्देवैः संस्तुतः कमलासनः ।
ध्यायन् देवं महादेवमद्वयं करुणार्णवम् ॥२३

अर्थ:
महर्षि नारद ने इसे ब्रह्मा से प्राप्त किया था और सबके कल्याण हेतु सुनाया।
ब्रह्मा जब इस स्तोत्र का जप करते हैं,
तो वे महादेव-नारायण के अद्वय, करुणामय स्वरूप का ध्यान करते हैं।

–समापन श्लोक:
ॐ इति श्रीस्कान्दपुराणे सह्याद्रिखण्डे सनत्कुमारसंहितायां ब्रह्मनारदसंवादे
श्रीशङ्करनारायणसहस्रनामस्तोत्रं सम्पूर्णम् ॥

अर्थ:
इस प्रकार स्कन्दपुराण के सह्याद्रिखण्ड में सनत्कुमार संहिता के अंतर्गत
ब्रह्मा और नारद के संवाद में वर्णित
श्रीशङ्करनारायण सहस्रनाम स्तोत्र सम्पूर्ण होता है।

📜 स्तोत्र का महत्व

“श्रीशङ्करनारायण सहस्रनामस्तोत्रम्” में भगवान के 1000 नामों का गुणगान है।
इन नामों के जप से —


🪔 पाठ विधि

इस स्तोत्र का पाठ कार्तिक मास, वैकुण्ठ चतुर्दशी या हरिहर एकादशी पर विशेष फलदायी होता है।

विधि:

  1. स्नान कर स्वच्छ वस्त्र धारण करें।
  2. शिव और विष्णु दोनों का संयुक्त ध्यान करें।
  3. दीपक, धूप और पुष्प अर्पित करें।
  4. श्रीशङ्करनारायण सहस्रनामस्तोत्रम् का एकाग्र भाव से पाठ करें।
  5. अंत में “ॐ नमो हरिहराय नमः” का 108 बार जप करें।

🌼 फलश्रुति

इस स्तोत्र के नित्य पाठ से —

यह स्तोत्र भगवान के एकत्व भाव की साधना है — जहाँ भेद नहीं, केवल परम प्रेम और एकता है।


🌸 निष्कर्ष

“श्रीशङ्करनारायण सहस्रनामस्तोत्रम्” केवल एक स्तोत्र नहीं, बल्कि हरिहर मिलन का अनुभव है।
जो साधक इस स्तोत्र का नित्य पाठ करता है, उसके जीवन में भक्ति, ज्ञान और मोक्ष का द्वार खुलता है।

Exit mobile version